________________
सूत्रं १ ]
• स्वोपज्ञभाष्य-टीकालङ्कृतम्
नपरिग्रहसंज्ञासम्भवात् । आदिशब्दाद् दहनच्छेदनालेखनहास्यधावनवल्गन लङ्घनावरोहणास्फोटनप्रभृतिकर्मविशेषाः कायिको योगः ॥
वाचिकयोगप्रदर्शनार्थमाह
भा० – सावद्यानृतपरुषपिशुनादीनि वाचिकः ॥
डी० - सत्यमपि वचः सावद्यं वाचिकं कर्माशुभं यथा - हन्यन्तां वाचिकयोगस्य भेदाः तस्कराः, व्यापाद्यन्तां हिंस्राः । अनृतमयथार्थमेव अचौरं चौरं [कार] - माक्रोशयति । परुषं-स्नेहरहितं यथा - धिग् जाल्म ! मूर्खस्त्वं पापाचार इति । पिशुनं सत्यमपि प्रीतिशून्यतापादनादन्यस्य परोक्षस्य सतो दोषसूचकं वचः । अन्योक्तकार्येषु देवदत्तो यत इदं चेदं चानेनाकारीति । आदिशब्दादसत्यच्छल शतं (शाठ्य ?) दम्भोलुण्ठिका कटुकसन्दिधमितविकथाश्रितः प्रवचनविरोधी वाचिकः सर्वः ॥
मनोयोगनिरूपणार्थमाह
मानसिकयोगस्य भेदाः भा० - अभिध्याव्यापादेर्ष्यासूयादीनि मानसः ॥
टी० – सदा सच्वेष्वभिद्रोहानुध्यानं अभिध्या, यथा— अस्मिन् मृते सुखं वसामः । सापाय उत्पादनारम्भो व्यापादः, यथा -- अस्त्यस्याऽमित्रं शक्रपविहन्तु तमेव प्रकोपयामीति । ईर्ष्या परगुणविभवाद्यक्षमा, यथा - सुभगेयमस्मै रोचते तत् कथमियं द्वेष्येति । तथा प्रागयं द्रमककैदाजीवोऽधुना तु धनदायते तत् कथमयं दरिद्रः स्यादिति । असूया क्रोधविशेष एव यथा - राजपत्न्यर्भिरतोऽयं तथापि शुद्धवृत्तमात्मानं मन्यत इति । आदिग्रहणेनाभिमानहर्षशोकदैन्यमन्यु मिथ्याभिसन्धिरागद्वेषपर परिभवात्म विस्मयासहिष्णुतागार्थ्यार्तरौद्रध्यानपरिग्रहः ।
एवं तावदकुशलयोग निर्धारणं कृतम् । अथ कुशलाः काययोगाः कीदृशा भवन्तीत्यत
आह
भा० - अतो विपरीतः शुभ इति ॥ १ ॥
टी०.
० - अतः अकुशलात् काययोगाद् वाग्योगान्मनोयोगाच्चाऽभिहितलक्षणाद् विपरीतः कुशलः शुभो द्रष्टव्यः । तद्यथा - अहिंसा अस्तेयं ब्रह्मचर्यमित्यादीनि शुभयोगस्य भेदाः काययोगः शुभः । असावद्यादिवचनमागमविहितभाषणं च कुशलमित्यद्वितीयपरिग्रहः । अनभिध्यादिधर्म शुक्लध्यानध्यायिता वेति मनोयोगः कुशलः, मूर्च्छालक्षणः परिग्रह इति मनोव्यापार एव । तथा निशि भक्तविरतिरित्येवमु१ 'अभ्युक्त' इति पाठः । २ 'मानसिकः' इति पाठः । ३ कुत्सित आजीवो यस्य स कदाजीवः । ४ 'रतोऽनेन ' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org