________________
तस्वार्थाधिगमसूत्रम् • . [ अध्यायः ६ पयुज्योत्तरगुणा अपि योगविभागेन वाच्याः। तदेतत् सूत्रं समस्तकुशलाकुशलचारि कृतमंस्ति, शेषमकुशलम् अध्यात्मचिन्ताप्रधानाः समादिशतीति ॥१॥
कायादियोगस्वरूपमभिधाय तत्त्वसूत्रप्रकृतमास्रवमिदानीमभिसम्बध्नाति-योऽयं योगशब्दाभिधेयः संसारिणः पुंसः क्रियाकलापः
सूत्रम्--स आस्रवः॥ ६-२॥ टी-स इति तच्छब्देन कायादियोगाभिसम्बन्धः, आस्रवन्ति तेन कर्माण्यात्मन इत्यास्रवः । पुंसि संज्ञायां घः प्रसिद्धः। स तत्प्रणालिकयाऽनेकप्रकारकर्मास्रवणादास्रवः । प्रयोगावेशाचार्टीकृतस्य पुंसो यथासम्भवं कषायादिक्रियापरिणतिभाजः कर्मसम्बन्धप्रसिद्धिः, कायादिव्यापाररूपेणापरिणतस्यात्मनः कर्मबन्धतत्फलोपभोगमोक्षाभावादवश्यमेवंविधपरिणामापत्तिमभ्युपैतीति, एनमेवार्थे भाष्येण दर्शयति
भा०–स एष त्रिविधोऽपि योग आस्रवसंज्ञो भवति ॥
टी०–स एष इत्यादि । स इति प्रागुद्दिष्टस्य निर्देशः। एष इत्युपप्रदर्शने, यथा स एष धीमानिति अनैकान्तवादिनो (१) निर्जिताः,तिस्रो विधा यस्य सः, त्रिप्रकारोऽपि कायवाङ्मनोयोगः।अपिशब्दः समुच्चये । एकैकोऽपि समुदायोपि, आस्रवः संज्ञा नाम अस्येत्यानवसंज्ञः। संज्ञाशब्दोपादानादन्वर्थसंज्ञाकथनम् । . तदेवान्वर्थसंज्ञत्वं दर्शयति
भा०-शुभाशुभयोः कर्मणोरास्त्रवणादास्रवः, सरसः सलिलावाहिनिर्वा हिस्रोतोवत् ॥२॥
टी०-शुभाशुभयोरित्यादिना । शुभाशुभे-पुण्यापुण्ये कर्मणी पुद्गलात्मके च आस्रवव्याख्या वक्ष्यमाणलक्षणे तयोः कर्मणोरास्रवणं-ग्रहणं तेन क्रियाविशेषणो
पादानात् स तादृशः क्रियाकलापः आस्रवः, तथापरिणामतो जीवः कर्मादत्ते, अन्यथा त्वभाव एव कर्मबन्धस्येति । स च द्रव्यभावभेदाद् द्विप्रकार आस्रवः । तत्र द्रव्यास्रवप्रदर्शनेन भावास्रवं प्रतिपादयन्नाह--सरसः सलिलावाहिनिर्वाहिस्रोतोवदिति । सलिलमावहति तच्छीलं सलिलावाहि, तथा सलिलं निर्वहतीति सलिलनिर्वाहि सलिलावाहिनिर्वाहिणी च ते स्रोतसी चेति सलिलावाहनिर्वाहिस्रोतसी ताभ्यां तुल्य आस्रवः सलिलावाहिनिर्वाहिस्रोतोवदास्रवः । स्रोतो-विवररन्ध्र कस्य सम्बन्धि ? सरस:-तडागस्य । किंप्रयोजनं तत् स्रोतः? सलिलावाहि सलिलप्रवेशप्रयोजनम् , एवं सलिलनिर्गमप्रयोजनं सलिलनिर्वाहि तद्व
१'एसी' इति क-पाठः । २ 'क्षभावादतशपमेवं ' इति क-पाठः । ३ ' रास्रवणादू ग्रहणात् ' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org