________________
व्याख्या
सूत्रं १] . बोपक्षमाष्य टीकालङ्कृतम् यवतो वाग्व्यापारो दृष्टोअणिहितचेतसः, तथा कायवाग्व्यापाराभावेऽपि कदाचिन्मनोव्यापार एव केवलो दृष्टः कचित्, अतः समुदिताः कायादय-आत्माधिष्ठिता एककाच क्रियाहेतवः । तत्र कायप्रयोजनं कायिकं, कायेन वा निवृत्तं, तत्र वा भवं, एवं वाचिकमानसे अपि वाच्ये । इतिशब्दः कर्मेयत्ताप्रतिपादनार्थः । एतावत् कर्मात्मनः कर्तुः शरीरैकत्वपरिणामादभिन्नं करणं भवति, वीर्ये निर्वत्यै अन्योन्यानुगतिपरिणामाद् द्रव्यरूपाः कायादियोगा भावयोगं वीर्य निवर्तयन्ति । यथा कर्तुःशरीरस्य आगमने निर्वयेऽप्यादी कारणमभिन्नमेकत्वादेवमेते अपीति । अत एष एव शरीरात्मप्रदेशपिण्डः प्रतिविशिष्टक्रियाकारित्वव्यवच्छिन्नस्त्रिविधो योगो भवति । तिस्रो विधा यस्यासौ त्रिविधः । तदेव प्रतिविशिष्टक्रियाकारित्वमुपसूचयतित्रिविधयोगानां
भा०—कायात्मप्रदेशपरिणामो गमनादिक्रियाहेतुः काय- योगः । भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः। मनो
- योग्यपुद्गलात्मप्रेदशपरिणामो मनोयोगः ॥ टी-त्रिविध इति मूलभेदकथनम्, उत्तरभेदास्तु पश्चदश भवन्ति । तद्यथाकाययोगस्य
. औदारिककायेन योगः औदारिककाययोगः औदारिककायावष्टम्भोसप्तविम पजातक्रियाभिसम्बन्ध औदारिककाययोगः, तिर्यमनुष्याणामेक, केव
लिसमुद्घातकाले च प्रथमाष्टमसमययोरिष्टः, स एव कार्मणसहचरित औदारिकमिश्रकाययोगः, केवलिसमुद्धाते द्वितीयषष्ठसप्तमसमयेषु समस्ति । औदारिकादिशरीराणां च द्वितीयाध्याये (सू० ३७-४९) स्वरूपमभिहितम् । औदारिककार्मणशरीरद्रव्यमिश्रुत्वात् मिश्रव्यपदेशः । यथा गुडमिश्रमन्नं न तु गुड इति व्यपदिश्यते अकेवलवाद,असम्पूर्णत्वादेवौदारिकयोगः सम्पूर्णोऽन्यव्यतिमिश्रत्वादौदारिकमिश्रकाययोगः। औदारिकस्य च प्राधान्यात् तेन निर्देशो विहितः । विविधक्रियाकारणो वैक्रियकायस्तेन योगः । स च नारकदेवानां तिर्यग्मनुष्याणां च विभूतिप्राप्तानाम्, एषामेव चौदारिकेण सह ग्रहणकाले वैक्रियमिश्रकाययोगः । पूर्ववन्मिश्रशब्दार्थः सर्वत्र । प्रयोजनार्थमाहियत इत्याहारकः काययोगः । स च साधोरेवर्द्धिप्राप्तस्य, स एवौदारिकेण सहाहारकमिश्रकाययोगो ग्रहणकाले भवति । सर्वकर्मप्ररोहबीजं सांसारिकसुखदुःखभाजनं कर्मैव कार्मणशरीरं तेन योगः कार्मणकाययोगः । स च विग्रहसमापत्तो केवलिसमुद्घाते वा त्रिचतुर्थपञ्चमसमयेषु भवति । कर्मणि वा भवं कार्मणम् । न च कर्मकार्मणयोरैक्यम् । कार्मणस्य कर्मणा निष्पादितत्वात् , किन्तु कर्मकार्मणवर्गणानां सदृशत्वात् तथैव तस्य व्यपदेशः कार्मणमिति । तैजसशरीरमाहारपाचनसमर्थमवियुक्तं कार्मणयोगेनेति न भेदेनोपात्तं स्वातन्त्र्यस्वाभाव्यात् । एवं काययोगः सप्तविधः प्रदर्शितः ॥ चतुर्धा वाग्योगस्तत्र निश्चयव्यवहारो यथार्थः सत्यः पापाद विरतव्यमिति
१. निवर्तयन्ति ' इति क-ख-पाठः । २ 'ष्याणां केवलि.' इति ग-पाठः । ३ 'अन्न' इति क-ग-पाठः । ४ 'कारणार्थ ' इति ग-पाठः । ५ ' समापन्नः' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org