________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ६ पणमिति । एतदुक्तं भवति-आस्तां तावदर्थव्याख्याऽसौ सान्यासिकी, इदमेवाभिधानमनिर्धारितार्थ न प्रतिपत्तुमुत्सहामहे योग इति । किंस्वरूपो योगः ? कतिप्रकारो वेत्याह-कायवामनःकर्म योग इति । कृतद्वन्द्वानां कायादीनामात्मनः करणानामभेदवृत्तीनां कर्मपदेन
सह षष्ठीसमासः । कर्म व्यापारः क्रिया चेष्टेत्यनर्थान्तरम् । एतत् कर्म योगस्यार्थः कायादिसम्बन्धि यथासम्भवं योग उच्यते, वीयोन्तरायक्षयोपशमज
नितेन पर्यायेणात्मनः सम्बन्धो योगः। स च वीर्यप्राणोत्साहपराक्रमचेष्टाशक्तिसामर्थ्यादिशब्दवाच्यः । अथवा युनत्त्येनं जीवो वीर्यान्तरायक्षयोपशमजनितं पर्यायमिति योगः । स च कायादिभेदात् त्रिविधः । साधकंगमनादिभाषणचिन्तास्वात्मनः । तत्र कायः--शरीरं आत्मनो वा निवासः पुद्गलद्रव्यघटितः स्थविरस्य दुर्बलस्य वाऽध्वालम्बनयष्टिकादिवद् विषमेषूपग्राहकस्तद्योगाजीवस्य वीर्यपरिणामः-शक्तिः--सामर्थ्य काययोगः, यथाऽनिसम्पर्का घटस्य रक्ततापरिणामः तथाऽऽत्मनः कायकरणसम्बन्धाद वीर्यपरिणतिः, तथाऽऽत्मयुक्तकायायत्ता वाग्वर्गणायोग्यस्कन्धा विसृज्यमाना वाकृतकरणतामापद्यन्ते । अनेन च वाकरणेन सम्बन्धादात्मनो यद् वीर्यसमुत्थानं भाषकशक्तिः स वाग्योगः सत्यादिभेदाच्चतुर्विधः । पुद्गलाश्च वस्तुतो न सत्यादिभेदभाजः, किन्तु ज्ञानमेव सत्यादिभेदमुच्यते तद्व्यवहारो वा, तथापि तद्धलाधानसाधकतमत्वाद् वागपि सत्यादिभेदेनोपचयेते । तथाऽऽत्मना शरीरवता सवेप्रदेशैगृहीता मनोवगेणायोग्यस्कन्धाः शुभादिमननाथे करणभावमालम्बन्ते, तत्सम्बन्धाचात्मनः पराक्रमविशेषो योगः सत्यादिविकल्पाचेतुधैव । अत्रापि मनोवर्गणायोग्यस्कन्धा न सत्यादिव्यपदेश्याः परमार्थतः, किन्तु नोइन्द्रियावरणक्षयोपशमसमुद्भतमनोविज्ञानपरिणतावात्मनो बलाधानकारित्वादात्मसहचरितत्वादुपचारतः सत्यादिव्यपदेश इति । अमुमेवार्थ भाष्येण स्पष्टयति
भा०-कायिक कर्म वाचिकं कर्म मानसं कर्म इत्येष
योगस्य त्रैविध्यम् त्रिविधो योगो भवति ॥
टी०-कायिकं कर्मेत्यादि भाष्यम् । एकैकस्य कायादेः कर्म भवति, नावश्य समुदितानामेवेत्यस्यार्थस्य प्रतिपादनार्थमभिसम्बध्नन् भाष्यकारः प्रत्येकमपि कर्मशब्द कायिकं कर्म वाचिकं कर्म मानसं कर्मेत्याह । भवतु नाम कायकर्म केवलं भूदकतेजोमारुतवनस्पत्यादिषु, वाकर्म मनःकर्म वा कस्मिन्नेस्मिन् दृष्टमिति, न ब्रूमो यथा कायकर्मतरद्वयनिरपेक्षं तथा वाकोपीतरद्वयानपेक्षं मनःकर्मवा, किंतर्हि?कायव्यापाराभावेपि का
१ 'कत्वाद् गम०' इति ग-पाठः। २ 'स्वात्मः' इति ग-पाठः । ३ 'तेन च' इति पाठः । ४ 'सम्बन्धत्वादात्मन' इति पाठः । ५ 'चतुर्विधैव' इति ग-पाठः । ६ 'ककं दृष्ट' इति ख-पाठः । ७ 'तद्वय' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org