________________
श्रेष्ठदेवच
श्रेष्ठिदेवचन्द्र लाल भाइ-जैन पुस्तकोद्धारग्रन्थाङ्केवाचक श्री उमास्वातिसंहृब्धस्य स्वोपज्ञभाष्ययुतस्य तत्त्वार्थाधिगमसूत्रस्य श्रीसिद्धसेन गणिकृतायां व्याख्यायां ॥ द्वितीयो विभागः ॥
Ido
अथ षष्ठोऽध्यायः ६
भा० – अत्राह-उक्ता जीवाजीवाः । अथास्रवः क इत्यास्रवप्रसिद्ध्यर्थमिदं प्रक्रम्यते ॥
अध्याय-सम्बन्धः
टी० - अत्राह-उक्ता जीवाजीवा इति सम्बन्धः । अत्र - एतस्मिन् जीवाजीवादिपदार्थसप्त प्रकृते जीवाचाजीवाश्च द्रव्यतः पर्यायतश्च स्थित्युत्पत्तिप्रलयस्वभावा व्याख्याताः । अथ तयोरनन्तरोद्दिष्ट आस्रवः क इति, प्रश्नपरिसमाप्तौ इतिशब्दः । क आव इत्येव मन्यते प्रष्टा । वस्तुतश्चेतनाचेतनलक्षणजीवाजीवपदार्थद्वयसद्भाव एव । आस्रवस्तु यदि जीवोsथापि जीवपर्याय: सर्वथा जीव एवास्तु । अथाजीवस्तत्पर्यायो वा तथा सति अजीव एव । नापि चेतनाचेतनव्यतिरेकि पदार्थान्तरमस्तीति, अतः स्वरूपं पृच्छतिकोsयमात्रव इति । आचार्यस्तूभयविशिष्टमास्रवं चेतसि निधायाहात्र - आस्रवप्रसिद्ध्यर्थमिदं प्रक्रियते ॥ अत्र जीवादिपदार्थसप्तके जीवाजीवावभिधाय लक्षणविधानाभ्यां धानाधिकारिका (?) भ्यामात्रवप्रसाधनार्थमिदं प्रस्तूयते । अथवा अत्रेत्यध्यायाभिसम्बन्धः । अत्र - अध्याये आस्रवो विचार्यते - स्वरूपेणाख्यायत इत्ययमभिप्रायः सूरेः । आस्रवःक्रियाविशेषः । स चात्मकायाद्याश्रयो न जीवो न जीवपर्यायः केवलः, न वाऽजीवो नापि तत्पर्यायः, उभयाश्रयत्वात् । न च पदार्थान्तरं जीवाजीवाभ्यामतो भेदेना स्त्रवस्वरूपमिदं लक्षणविधानाभ्यां व्याख्यातुं प्रक्रियते
सूत्रम् — कायवामनःकर्म योगः ॥ ६१ ॥
टी० - ननु चायमसङ्गतार्थः सम्बन्धोऽन्यस्मिन् प्रस्तुतेऽन्यस्य व्याख्येयत्वेनोपन्यासाद,आस्रवसम्बन्धमभिधाय योगः सूत्रेणोपन्यस्त इति । उच्यते--आस्रवः योगशब्दे हेतुः प्रतिज्ञातः, स एव च व्याख्यायते, किन्तु तद्व्याख्यानपैरिकरार्थं योगोपन्यासस्तन्मूलत्वादास्रवस्येति । अथवा पञ्चमाध्यायपर्यन्ते सूत्रेऽभिहितं -- योगस्तु परस्ताद् वक्ष्यते । स चायं योगः कायादिभेदः, तत्प्रणाडिकयैवास्रवस्वरूपनिरू१ 'प्रकियते' इति घटी. पाठः । २ 'प्राधान्याधि' इति ग पाठः | ३ ' परिपाकार्थ' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org