________________
सूत्र ६ ]
स्वोपज्ञभाग्य-टीकालङ्कृतम्
५१
प्राप्त्यभिधायित्वे सत्ययमर्थो भव्यशब्दस्य, कर्मसाधनपक्षे प्राप्यन्ते स्वधर्मे यानि तानि भव्यान्युच्यन्ते, कर्तृसाधनपक्षे तु प्राप्नुवन्ति तान्येव धर्मादीनीति भव्यानि द्रव्याण्युच्यन्ते इति । एतदाह - प्राप्यन्ते प्राप्नुवन्तीति वा द्रव्याणि । सम्प्रति जीवादीनां न्यासं प्रदर्श्य तेषां च पर्यायस्य द्रव्यशब्दस्य अन्येषामप्येवमेव कार्य इत्यतिदिशन्नाह - एवं सर्वेषामित्यादि । एवं यथा जीवादीनां द्रव्यशब्दस्य च तथा सर्वेषां गुणक्रियादिशब्दानाम्, अनादीनां इति भव्याभव्यादीनाम्, आदिमतां च मनुष्यादीनां पर्यायाणां जीवादीनां भावानां जीवादिभ्योऽनन्यवृत्तीनाम्, तत्वाधिगमार्थमिति तत्त्वस्य - परमार्थस्य भावस्य अधिगमः स सर्वत्र, न तु नामस्थापनाद्रव्याणामिति, हेयत्वादेषां तत्त्वाधिगमप्रयोजनं न्यासो निक्षेपो रचना कार्या बुद्धिमता मुमुक्षुणेति ॥ ५ ॥
शिष्य आह- कथं भगवता तच्चानां जीवादीनामधिगमः कृतः १ । यदि च केनाप्युपायेनाधिगतानि भवन्ति ततो युक्तं कथनमन्यंस्मायेतानि तच्चानीति ? उच्यते
सूत्रम् - प्रमाणन यैरधिगमः ॥ १-६ ॥
टी० - प्रमाणनयैरिति च करणे तृतीया न कर्तरि यतस्तत्र षष्ठ्या भवितव्यम् 'कर्तृकर्मणोः कृती' (पाणिनिः अ० २, पा० ३, सू० ६५ ) इति । प्रमाणे प्रत्यक्ष परोक्षे द्वे, अवधिमनःपर्यायकेवलानि मतिश्रुते च, नैगमादयो नयाः पञ्च प्रमाणे च नयाश्च प्रमाणनयास्तैः प्रमाणनयैः साधकतमैः ।
1
भा०- एषां च जीवादीनां तत्त्वानां यथोद्दिष्टानां नामादिभिर्न्यस्तौनां प्रमाणन यैर्विस्तराधिगमो भवति । तत्र प्रमाणं द्विविधं प्रत्यक्षं परोक्षं च वक्ष्यते (१-१०,१२ ) । चतुर्विधमित्येके नयवादान्तरेण । नयार्थे नैगमादयो वक्ष्यन्ते ( १-३४ ) ॥ किञ्चान्यत् ॥ ६ ॥
टी० - एषां चेत्यादि । एषाम् इति भवतः प्रकटीकृतानाम्, चशब्द एवकारार्थे, एषामेवान्यस्याभावात्, अथवा समुच्चये, एषां जीवादीनां चअधिगम-साधनम् शब्दान्नामादीनां च तत्त्वानामिति चानेनोभयं सम्बध्यते, जीवादीनां तच्चानां नामादीनां च तच्चानाम् । यथोद्दिष्टानामिति । यथा परिपाट्या जीवाजीवादिकया सामान्येनाभिहितानामुद्दिष्टानामिति । सामान्येन च जीवाजीवा ( १-४ ) इत्यस्मिन् सूत्रेऽभिधाय पुनर्नामस्थापनादिसूत्रे नामादिभिर्भेदैस्तनां, किमर्थं पुनर्जीवाजीवास्रवादिसूत्रे उद्घाट्य ततो नामादिमूत्रे न्यस्तानि ? । उच्यतेपरिज्ञानार्थमनेको जीवशब्दवाच्योऽर्थ इत्यस्य । एतदेवाह - न्यस्तानामिति । अधिगमोपायार्थ
१' मन्यस्यायत्तानि ' इति ख- पाठः । २ 'यथोपदिष्टानां' इति ख-घ-टी-पाठः । ३ ' न्यस्तानामित्यधिगमोपायार्थमुपक्षिप्तानामित्यर्थः ' इति ख-घ -टी-पाठः । ४ 'मयाच पश्च' इति ख-घ -टी-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org