________________
५०
तस्वार्थाधिगमसूत्रम्
[अध्यायः १ तदाह-केचिदप्याहुः इत्यादि । केचित् पुनर्बुवते यदित्यणुकांदि द्रव्यतो द्रव्यं इति, तृतीयार्थे पञ्चम्यर्थे वा तसिरुत्पाद्यः, द्रव्यैः सम्भूय यत् क्रियते, यथा बहुभिः परमाणुभिः सम्भूय स्कन्धस्त्रिप्रदेशिकादिरारभ्यते तद् द्रव्यद्रव्यम् । अथवा यद् द्रव्यात् तस्मादेव स्कन्धात् त्रिप्रदेशिकादेर्यदैकः परमाणुः पृथग्भूतो भवति तदा तस्माद् भिद्यमानात् त्रिप्रदेशिकात् स्कन्धात् परमाणुश्च निष्पद्यते द्विप्रदेशिकश्च स्कन्ध इति, स परमाणुरपि द्रव्यद्रव्यं द्विप्रदेशिकोऽपि द्रव्यद्रव्यं भवतीति । तच्चैतद् द्रव्यद्रव्यं पुद्गलमेव भवतीति प्रत्येतव्यम् । नहि जीवादिद्रव्यमन्यैः सम्भूयारभ्यते, न चान्यस्मात् भिद्यमानात् तनिष्पद्यत इति, परमाणवस्तु सम्भूयान्यदारभन्ते ततश्च निष्पद्यन्त इति, यतः पञ्चमेऽध्यायेऽभिधास्यते अणवः स्कन्धाः (५-२५) इत्यादि, अणवः-परमाणवः, स्कन्धाः-द्विप्रदेशिकादयः, सङ्घातात् स्कन्धा भेदादणवो निष्पद्यन्त इति ॥ भावद्रव्यमिति चैकं विन्यस्य भावतो द्रव्याणि बहून्युपक्षिपतोऽयमभिप्रायः, अन्याभिमतं यदेकं विश्वस्य जगतः कारणं ब्रह्मादि तदपास्यते, बहून्येतानि स्वत एव सत्तां दधतीति प्रतिपादयति, कानि च तानि ? धर्मादीनि पञ्च, सगुणपर्यायाणि इति, गत्याद्यगुरुलघुप्रभृतिपर्यायभाञ्जीति, एतत् स्याद् यद्येन धर्मेण
र समन्वितं तं धर्म न कदाचित् तद् जहाति तेन सदान्वितमास्ते द्रव्याणां प्राप्ति
• इति, एतच्च न, प्राप्तिलक्षणानि-परिणामलक्षणानीतियावत् , लक्षणता
अन्यानन्यांश्च धर्मान् प्रतिपद्यन्त इति, जीवास्तावद् देवमनुजादीन पुद्गलाः कृष्णादीन् धर्मादयः पुनस्त्रयः परतोऽन्यानन्यांश्च प्राप्नुवन्ति, यतोऽन्यस्मिन् गच्छति तिष्ठति अवगाहमाने वा जीवे पुद्गले वा गमनादिपरिणामस्तेषामुपचर्यते, अतो हि प्राप्तिलक्षणानि वक्ष्यन्ते । अथवा भावद्रव्यमिति, द्रव्यार्थ उपयुक्तो जीवो भावद्रव्यमुच्यते, एतद् वा कथयत्यनेन भाष्येण आगमतश्चेत्यादिना, अथवा प्राप्तिलक्षणानीति यदुक्तं सा न खमनीषिका, यत आगमे आप्त एवमुपदिदेश-प्राप्तिलक्षणान्येतानि, कथमिति चेत् ? तदाह-आगमतश्चेत्यादि । तसिः सप्तम्यर्थे, आगमत आगमे, पूर्वाख्ये कथ्यमाने, प्राभृतज्ञ इति, शब्दप्राभृतं, तच पूर्वेऽस्ति, यत इदं व्याकरणमायातं, ततः शब्दप्राभृतं यो जानाति स प्राभृतज्ञो गुरुरेवं ब्रवीति द्रव्यमिति । अस्याथ तीर्थकृत् किमाहेति चेत्, तदुच्यते-भव्यमाह । भव्यमिति च न ज्ञायते तत् स्पष्टयति-द्रव्यं च भव्य इति । अस्यायमर्थः-द्रव्यमिति निपात्यते भव्यं चेद भवति । भव्यमिति सन्देहास्पदमेव केषाश्चिदिति स्पष्टयति-प्राप्यमाह । प्राप्तव्यं तैः स्वगतैः परिणतिविशेषैर्गत्यादिभिः व्याप्यत इत्यर्थः । अतो न स्वमनीषिका प्राप्तिलक्षणानीत्येषाम् ॥ ननु चायं भवतिरकर्मकः सत्ताभिधायी कथं प्राप्यमित्यनेन कर्माभिधायिना कृत्येन भव्यमित्यस्यार्थो वित्रियते ?। उच्यते-नैवायं सत्ताभिधायकः, तर्हि ? प्राप्त्यभिधायी चुरादावात्मनेपदी, भू प्राप्तावात्मनेपदी । तदाह प्राप्त्यभिधायिना कथ्यते तेन, तदेवं इति
१'यद् द्यणुकादि' इति ग-पाठः। २'का देयुक्तः' इति ग-पाठः। ३ 'कानिचित् तानि' इति क-खपाठः। ४ 'कदाचिद् न जहाति' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org