________________
५२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ मुपक्षिप्तानामित्यर्थः, अतः पूर्वमुद्घट्टितानांन्यस्तानां च इह प्रमाणनयैर्विस्तराधिगमो भवति । विस्तराधिगम इति । एकैकस्य तत उद्घटनादपकृष्टस्य विस्तरेण लक्षणविधानाख्येन वक्ष्यमाणेन (१-१०, १-३५)प्रमाणनयरूपेणाधिगमः-परिच्छेदो भवति। एतत् कथितं-यदा यदाधिगमस्तदा तदान प्रमाणनयान विरहय्येति । न चायं पयेनुयोगः काये:-प्रमाणनयेः कथं भवत्यधिगम इति ? । यस्माज्ज्ञान विशेषाः प्रमाणनयाः, अतः प्रकाशस्वभावत्वात् प्रदीपवदाधिगमशक्तिता। अथ कतिविधं प्रमाणमिति सङ्ख्यानियमाय प्रश्नयति । आह-तत्र प्रमाणं द्विवि. धम् । तत्रति सिद्धान्तं नन्द्यादिकं व्यपदिशति । प्रमाणमिति च प्रमीयतेऽनेन तत्त्वमिति
प्रमाणम्, अस्मिन् पक्षे आत्मा सुखादिगुणकलापोपेतस्तेनावबुध्यते प्रमाण-द्वविध्यम् साधकतमेन मत्यादिना विषयमिति प्रतिपत्तव्यम् । यदा तु 'कृत्यल्युटो
बहुलम्' (पाणिनिः अ० ३, पा० ३, सू० ११३) इति कर्तरि प्रमाणमित्येतत् तदात्मनोऽविभक्तं मत्यादिज्ञानपञ्चकम् , प्रमिणोत्यवगच्छतीति प्रमाणम्, यदा त्वधिकरणे प्रमाणमित्येतत् तदा प्रमीयतेऽस्मिन् बहिरङ्गोऽर्थ इति प्रमाणम्, आत्मन्येव बहिरङ्गार्थप्रतिबिम्बनात्, नहि विषयाकारानारूषितं तज्ज्ञानं तस्य परिच्छेदे वर्तते, यदा तु तेन विषयाकारेण तज्ज्ञानं परिणतं भवति तदा तस्य वस्तुनः परिच्छेदोऽन्यथा नेति । द्विविधमित्यनेन सङ्ख्यानियम इति द्विविधमेव न पुनस्त्रिविधादि। कथं द्वविध्यमिति चेत् ? उच्यतेइहैवाध्याये प्रत्यक्षं परोक्षं चेति वक्ष्यते ( १-११, १२) उपरिष्टात् । पराणि च निर्माणाङ्गोपाङ्गोदयनिवृत्त्युपकरणरूपाणीन्द्रियाणि २.१७ ) मनश्च मनोवर्गणापरिणतिरूपं द्रव्येन्द्रियं परं तेभ्यो य:पजायते ज्ञानं तन्निमित्त तत् परोक्षमुच्यते धूमादग्निज्ञानवत्. प्रत्यक्षं पुनरश्नाति अनुते वाऽथोनित्यक्षः-आत्मा तस्याक्षस्येन्द्रियमनांस्यनपेक्ष्य यत् स्वत एवोपजायते तत् प्रत्यक्षम् । यदि तर्हि नन्द्यां द्विविधमुपदिष्टं कथमनुयोगद्वारग्रन्थे चतुर्विधमुपन्यस्तम् ? । यतः केचिन् नैगमादयो नयाः । चतुर्विधमित्येके नयवादान्तरेण | एके सूरयश्चतुर्विधं प्रमाणमुपदिशन्ति नयभेदेन प्रत्यक्षानुमानोपमानागमाख्यम्, एतच यथा दुःस्थितं चातुर्विध्यं तथा भाष्यकार एवोत्तरत्र दर्शयिष्यति (१-१२)। एवं प्रमाणावयवं निर्भिद्य व्युत्पत्यादिद्वारेण नयावयवं विभजन्नाह-नयाश्चेत्यादि । नयन्तीति नयाः कारकाः व्यजका इति यतः सूत्रार्थ (यतस्तवार्थ) दर्शयिष्यति भाष्यकारः, ये ह्यनेकधर्मात्मकं वस्त्वेकेन धर्मेण निरूपयन्ति एतावदेवेदं नित्यमनित्यं वेत्यादि विकल्पयुक्तं ते नया नैगमादयो वक्ष्यन्ते (१-३४)॥ ननु च प्रमाणमपि सामान्यविशेषात्मकवस्तुपरिच्छेद्येव, नया अपि
चैवंविधविषयोपनिपातिन एवेति नास्ति कश्चिद् विशेषः, ज्ञानात्मप्रमाणनयान
माना कत्वाद्धि नया न भेदेनोपादेयाः प्रमाणादिति, असत्या एव भिन्नता
नया इति [ चेदनो ] हेयतया न्याय्यमुपादानमित्येतदपि न, यतो वक्ष्यति-"न विप्रतिपत्तयोाध्यवसाया" इति [१-३५ ], तथा “ नियय
१ 'अपरिणतं' इति ख-टी-पाठः । २ 'मुशन्ति' इति ग-पाठः ३ 'कार्थ' इति 'कथ' इति वा ग-टीपाठः । ४ 'परिच्छेदे च,''परिच्छेदे व ' इति क-ख-पाठौ । ५ 'सायात्' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org