________________
सूत्रं ५] स्वोपज्ञभाष्य-टीकालङ्कृतम्
४५ दर्शयति-स्थापनाजीवो नाम जीवाकारः, प्रतिकृतिसद्भावेऽन्यथाऽसद्भावे, तन्निमित्तकश्रेयोभ्युपगमात्, गन्धपुष्पादिनिमित्तार्थत्यागश्च, तद्भक्तिप्रवृत्तः, कुम्भवदाकारोऽर्थो वस्तुत्वात्, तथा "जावंति चेइयाई ति"। द्रव्यजीवो नाम, योऽयमस्मिन् शरीरक आत्मा स यदा भावानादिभिर्वियुतो विवक्ष्यते स द्रव्यजीवः, अनागतराजत्वराजपुत्रसेवनं हि दृष्टं, तत्र द्रव्यत्वात् (सिद्धि-) शिलातलायुज्झितातीतयतिशरीरनमस्करणं च, उपयोगक्रिययोरपि ज्ञेयो, येषामर्थानां न च तदुपयोगे वर्तते स तेन भावेनाभावादतीतानागततद्भावापेक्षया तद्भावाप्रवृत्तोऽपि स एवासावध्यवसीयते सुप्तचित्रकरघृतकुम्भादिवत्, तथा च "जं होहिसि तित्थयेरो" "वंदामि जिणे चउव्वीसं" इत्यादि । एष एव हि तैर्ज्ञानादिभिर्युक्त आश्रीयमाणो भावजीव इति, भावः प्रमत्तदोषमर्षणादेः, त(य)था
"अन्नत्थ वंजणे निवडियंमि जो खलु मणोगओ भावो ।
तत्थ उ मणं पमाणं न पमाणं वंजणच्छलणा ॥"-विशे० २५४५ इत्यादि । अत्र चाद्या नामादयस्त्रयो विकल्पाः द्रव्यास्तिकस्य, तथा तथा सर्वार्थत्वात्, पाश्चात्यः पर्यायनयस्य, तथापरिणतिविज्ञानाभ्यामिति । अथवाऽस्मिन्नेव शरीरे य आत्मा तत्रैव ते नामादयश्चत्वारो नियुज्यन्ते, योऽयमस्मिन्नात्मनि जीव इति ध्वनिः प्रवतते एष नामजीवः, तस्यैव य आकारो हस्ताद्यवयवसन्निवेशादिः स स्थापनाजीवस्तदेकपरिणामात्, तस्यैव जन्तोः सकलगुणकलापरहितत्वविवक्षा बौद्धव्यवहारानुसारिणी द्रव्यजीवः, स एवज्ञानादिगुणपरिणतिभाक्त्वेन विवक्षितो भावजीव इति,एतत् कथयति नामजीव इत्यादिना॥
सम्प्रति नामस्थापनाद्रव्यभावानां जीवविशेषणतयोपात्तानां स्वार्थ लक्ष्ये प्रदर्शयन्नाहनाम संज्ञाकर्मेत्यनर्थान्तरमित्यादिना । नामेति किमुक्तं भवति ? उच्यते-संज्ञाकर्मेत्यनर्थान्तरम, संज्ञायाः क्रिया संज्ञाक्रिया संज्ञाकर्म नामकरणं इत्यर्थः, अनेन ध्वनिना वस्त्विदं प्रतिपाद्यत इतियावत् । तत् पुनः प्रतिपाद्यं वस्तु तस्य ध्वनेर्वाच्येनार्थेन युक्तं भवतु मा वा भूदित्येतत् कथयति-चेतनावत इत्यादिना । चेतना-ज्ञानं सा यस्यास्ति तच्चेतनावत्, तद्विपरीतमचेतनम् । द्रव्यस्यति प्रदर्शनमिदं, गुणक्रिययोरपि नामादिचतुष्टयप्रवृत्तेः। अथवा द्रव्यस्य प्राधान्यमाविष्करोति, यतस्तदेव द्रव्यं गुणक्रियाकारेण वर्तते, कोऽन्यो गुणः क्रिया वा द्रव्यमन्तरेण ? वर्णकविरचनामात्रक्रमप्राप्तनानात्वनटवद् द्रव्यमेव तथा तथा विवर्तते अतो न स्तः केचिद् गुणक्रिये द्रव्यास्तिकनयावलम्बने सतीति । अतस्तस्य द्रव्यस्य यस्य कस्यचिन् नाम क्रियते व्यवहारार्थ संज्ञासंकेतः क्रियते । कीदृगित्यत आह-जीव इति ।
१ 'यावन्ति चैत्यानि' इति । २ 'यद् भविष्यति तीर्थकरः' ( आवश्यक-निर्युक्तौ ) । ३ 'वन्दे जिनान् चतुविंशति' (आव-चतुर्विंशतिस्तवः)।
४ 'अन्यत्र निपतिते व्यञ्जने यः खला मनोगतो भावः ।
तत्र तु मनः प्रमाणं न प्रमाणं व्यञ्जनं छलना ॥ . ५ 'बौधव्यवहारा' इति क-ख-पाठः । ६ द्रव्यस्य इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org