________________
४६
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १
इतिना स्वरूपे जीवशब्दः स्थाप्यते, जीव इत्ययं ध्वनिः, नत्वेतद्वाच्यार्थो नामतया नियुज्यते । स नामजीव इति, स इत्यनेन तत्र चेतनावत्यचेतने वा यदृच्छया यो जीवशब्दो नियुक्तस्तं व्यपदिशति, स शब्दो नामजीव इति । एतदुक्तं भवति स एव शब्दो जीव इत्युच्यते तद्वस्तूपाधिक इति, अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति न्यायात् ॥
संप्रति स्थापनाजीवं कथयति - यः काष्ठपुस्त इत्यादिना । यः स्थाप्यते जीव इति सम्बन्धः, क स्थाप्यते । काष्ठपुस्तादिष्वित्याह । काष्ठं - दारु, पुस्तं - दुहितृकादिसूत्रचीवरादिविरचितं, चित्रं - चित्रकराद्यालिखितम्, कर्मशब्दः क्रियावचनः प्रत्येकमभिसम्बध्यते, काष्ठक्रियेत्यादि । अक्षनिक्षेप इति सामयिकी संज्ञा चन्दनकानां निक्षेपो रचना विन्यास इति । ते काष्ठपुस्त चित्रकर्माक्षनिक्षेपा आदिर्येषां रच्यमानानां ते काष्ठपुस्तचित्र - कर्माक्षनिक्षेपादयः, आदिशब्द उभाभ्यां सम्बन्धनीयः, काष्ठपुस्तचित्रकर्मादयो ये सद्भावस्थापनारूपास्तथाऽक्षनिक्षेपादयोऽसद्भाव स्थापनारूपा ये, तेषु बहुषु स्थाप्यते -य उच्यते तेषु काष्ठादिषु बहुष्वाधारेषु य एको रच्यते जीवाकारेण, एतदाह-जीव इति । स जीवाकारो रचितः सन् स्थापनाजीवोऽभिधीयते । एतदुक्तं भवति - शरीरानुगतस्यात्मनो य आकारो दृष्टः स तत्रापि हस्तादिको दृश्यते इतिकृत्वा स्थापनाजीवोऽभिधीयते । ननु चाक्षनिक्षेपे नास्त्यसावाकार इति, उच्यते - यद्यपि बहीरूपतया नास्त्यक्षे निक्षिप्यमाणेऽसावाकारः, तथापि बुद्धया स रचयिता तत्र विरचयति तमाकारम्, अत एव स्थापना नामद्रव्याभ्यां सुदूरं भिन्ना, यतो निक्षिप्यमाणं वस्तु न शब्दो भवति, नापि तद्भाववियुतं विवक्ष्यते, किन्त्वाकारमात्रं यत् तत्र तद् विवक्षितमिति । स्थापनाजीवं दृष्टान्तेन भावयति - देवताप्रतिकृतिवदित्यादिना । देव एव देवता तस्याः प्रतिकृतिः - विम्बं सा च न सैव सहस्राक्षवज्रपाणिश्वेतवा सोधारिरूपा, नापि ततोऽत्यन्तं भिन्नस्वभावा, अत्यन्तभिन्नस्वभावाभ्युपगमे हि सा प्रतिकृतिरेव न स्यात् कुड्यवत्, अतोऽवश्यं कथञ्चिदसौ ततो भिद्यत इति प्रतिपत्तव्यम्, ये तस्यां मुख्यदेवतायां सहस्रलोचनाद्यवयवा यथा संनिविष्टा दृष्टास्तेऽस्यां काष्ठमय्यां दृश्यन्त इत्येतावता सैव मुख्या देवता इयमिति निगद्यते । ये तु तत्र ज्ञानदर्शनैश्वर्यादयो धर्मा दृष्टास्तेऽस्यां काष्ठमय्यां न दृश्यन्त इति एतावता प्रतिविम्बमित्यभिधीयते । अतो यथेह कस्यचित् इन्द्रादेः प्रतिकृतिः स्थापिता सती इन्द्र इति व्यपदिश्यते, एवमिह जीवाकृतिः प्रतिमादिषु स्थापिता स्थापनाजीवो व्यपदिश्यते । रुद्र उमापतिः, स्कन्द इति स्कन्दकुमारः, उत्तरपदलोपात् सत्यभामा सत्येति यथा, विष्णुरिति वासुदेवः । एषां च न शास्त्रे देवताख्या समस्ति लोकानुवृत्त्या भाष्यकृदुवाच । अत एषां रुद्रादीनां प्रतिकृती रचिता रुद्र इत्यादिव्यपदेशं लभते । एवं जीवस्य काष्ठादिषु प्रतिकृतिः कृता स्थापनाजीव इत्यभिधीयते ।
द्रव्यजीव इति । इतिः प्रकारार्थः । योऽयं प्रकारः प्रागुपादाय द्रव्यजीव इति तं प्रदर्शयामि । योऽयमात्मा स उज्झिताशेषज्ञानादिगुणसमुदायो द्रव्यजीवोऽभिधीयते । एतदेवाह - गुणपर्यायवियुक्त इति । गुणाः सहभ्रुवो ज्ञानदर्शनसुखादयः, पर्यायाः - क्रमभुवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org