________________
४४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ मिकौयिकपारिणामिकभावयुक्ता उपयोगलक्षणाः संसारिणो मुक्ताश्च द्विविधा वक्ष्यन्ते (२-१०)। एवमजीवादिषु सर्वेष्वनुगन्तव्यम् ॥
पर्यायान्तरेणापि नामद्रव्यं, स्थापनाद्रव्यं, द्रव्यद्रव्यं, भावतो द्रव्यमिति। यस्य जीवस्याजीवस्य वा नाम क्रियते द्रव्यमिति तन्नामद्रव्यम् । यत् काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते द्रव्यमिति तत् स्थापनाद्रव्यम्, देवताप्रतिकृतिवदिन्द्रो रुद्रः स्कन्दो विष्णुरिति । द्रव्यद्रव्यं नाम गुणपर्यायवियुक्तं प्रज्ञास्थापितं धमोदीनामन्यतमत् । केचिदप्याहुः-यद् द्रव्यतो द्रव्यं भवति तच्च पुद्गलद्रव्यमेवेति प्रत्येतव्यम् । अणवः स्कन्धाश्च, सङ्घातभेदेभ्य उत्पद्यन्त इति वक्ष्यामः (५-२५,२६)। भावतो द्रव्याणि धर्मादीनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते (५-३७)। आगमतश्च प्राभृतज्ञो द्रव्यमिति भव्यमाह । द्रव्यं च भव्ये । भव्यमिति प्राप्यमाह । भू प्राप्तावात्मनेपदी। तदेवं प्राप्यन्ते प्राप्नुवन्ति वा द्रव्याणि । एवं सर्वेषामनादीनामादिमतां च जीवादीनां भावानां मोक्षान्तानां तत्त्वाधिगमार्थ न्यासः कार्य इति ॥५॥
टी-एभिरित्यादि । एभिरिति सूत्रोक्तः, कैः ? नामादिभिः, नाम आदिर्येषां ते नामादयस्तैर्नामादिभिरिति, आदिशब्देन च नेयत्ताऽवधृतेत्यतश्चतुर्भिरित्याह । अत एव विग्रहमपि न कृतवान्, चतुर्भिरित्यनेनैव समासाऽव्यक्ताभिधानस्य व्यक्तीकृतत्वादिति । अनुयोगः-सकलगणिपिटकार्थोऽभिधीयते तस्य द्वाराणि-तस्यार्थस्याधिगमोपाया इत्यर्थः । अतस्तैर्नामादिभिर्विरचना कार्या । विरचना विरच्यमानविषयेत्यतस्तन्न्यास इत्याह । अस्य च विवरणं, तेषां इति अनन्तरसूत्रोक्तानाम् । तानेव स्पष्टयति-जीवादीनां तत्त्वानां न्यासो भवति-विरचना कार्येति । स किमर्थं न्यासः क्रियत इत्याहविस्तरेणेत्यादि । पुरस्तात् त्विदमुक्तं 'तान् जीवादीन् विस्तरेण लक्षणतो विधानतथोपदेक्ष्याम' इति (१-१)। तेषु च लक्षणविधानेषु वक्ष्यमाणेषु सर्वत्रैषा नामादिका व्याख्याऽवतारणीया, किमर्थम् ? अधिगमार्थ-प्रतिविशिष्टज्ञानोत्पत्त्यर्थमिति । कथं नाम लक्षणादिवाक्येषु सर्वत्रैवंविधा प्रतिपत्तिं कुर्यात् जिज्ञासुः ? 'उपयोगश्चतुर्भेदः, जीवश्च' इत्यादि, अतोऽधिगमार्थ न्यासः । न्यास इत्यस्य च प्रसिद्धतरेण शब्देन पर्यायेणार्थमाचष्टे-निक्षेप इत्यर्थः । तन्नामादिचतुष्टयं यथा लक्ष्येऽवतरति तथा कथयति-तद्यथा, नामजीव इत्यादि।
नामैव जीवो नामजीवः, योऽयं जीव इति ध्वनिः, अयं च यस्य जीवपदार्थ
थे. कस्यचिद् वस्तुनो वाचकः स नामजीवोऽभिधीयते, वस्तुस्वरूपप्रतीतिनामादिन्यास:
हेतुत्वाच्च, वस्तुस्वरूपं शब्दः, तदनर्थात्मकत्वे वस्तुव्यवहारविच्छेदः, तदात्मकत्वाच्च स्तुतौ रागः स्तुत्यस्य, द्वेषश्च निन्दायां द्वेष्यस्य । स्थापना(त्या अ)पि वस्त्वात्मतां
१ 'दिष्वपिः' इति घ-टी-पाठः । २ ' सर्वगुण ' इति घ-टी-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org