________________
सूत्रं ५]
स्वोपज्ञभाष्य-टीकालङ्कृतम् (२-१०), पुनर्विस्तरः संसारिणस्वसाः स्थावराश्चेत्यादिना ( २-१२ )। तथा अजीवादीनां धर्मादीनां लक्षणं गतिस्थित्यादि ( ५-१७ ), धर्माधर्माकाशानां त्वेकत्वान्नास्ति विधानम् ( ५-५), प्रदेशान् वाऽङ्गीकृत्यासङ्ख्येयाः प्रदेशाः धर्माधर्मयोः (५-७), जीवस्य च (५-८ ), आकाशस्यानन्ताः (५-९) इति स्यादेव विधानम् । आस्रवं लक्षणेन भणिष्यति, कायवाचनःकर्म योगः ( ६-१) स आस्रवः (६-२) इति, पुनस्तस्य भेदं शुभः पुण्यस्येत्यादि ( ६-३,४)। बन्धस्य लक्षणं भणिष्यति, सकषायत्वात् जीव इत्यादिकम् (८-२), पुनस्तस्य विधानं प्रकृतिस्थित्यादिकम् ( ८-४)। तथा संवरलक्षणं आस्रवनिरोधः संवर इति (९-१), पुनस्तस्यैव विधानं स गुप्तिसमितिधर्मादिकम् (९-२)। निर्जराया लक्षणं वक्ष्यति, तपसा निर्जरा चेति (९-३), पुनस्तद्भेदा अनशनादयः (९-१९)। मोक्षः कृत्स्नकर्मक्षयलक्षणः (१०-३), प्रथमसमयसिद्धादि विधानम् ॥ ४॥
अत्राह-कथं पुनरमी जीवादयोऽधिगन्तव्या इति ? उच्यते-नामादिभिरनुयोगद्वारैस्तथा प्रत्यक्षानुमानाभ्यां (प्रमाणाभ्यां) नैगमादिभिश्च वस्त्वंशपरिच्छेदिभिर्नयैस्तथा निर्देशस्वामित्वादिभिः सत्सङ्ख्याक्षेत्रादिभिश्च । तत्र कतिभेदा जीवा इति पृष्टे चतुर्भदताख्यानायाह
सूत्रम्-नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥ १-५॥
टी-इति । अथवाऽभिधास्यति भवान् उपयोगलक्षणो जीवः(२-८),तत्र किं सर्वो जीव उपयोगलक्षणः १ । नेत्याह-भावजीव एवोपयोगलक्षण इति । अथ किमन्योऽप्यस्ति यतो भावजीव इति विशेष्यते ? अस्तीत्याह । कतिविधश्चेत्, उच्यते-नामेत्यादि, तृतीयार्थे तसिः, सूत्रार्थ च कथयन्नाह___ भा०-एभिर्नामादिभिश्चतुर्भिरनुयोगद्वारैस्तेषां जीवादीनां तत्त्वानां न्यासो भवति । विस्तरेण लक्षणतो विधानतश्च अधिगमार्थ न्यासो निक्षेप इत्यर्थः । तद्यथा-नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति । नाम संज्ञाकर्म इत्यनर्थान्तरम् । चेतनावतोऽचेतनस्य वा द्रव्यस्य जीव इति नाम क्रियते स नामजीवः । यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवो देवताप्रतिकृतिवदिन्द्रो रुद्रः स्कन्दो विष्णुरिति । द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव उच्यते । अथवा शून्योऽयं भङ्गः। यस्य यजीवस्य सतो भव्यं जीवत्वं स्यात् स द्रव्यजीवः स्यात्, अनिष्टं चैतत् । भावतो जीवा औपशमिकक्षायिकक्षायोपश
१'अधिगमाय ' इति क-ख-घ-टी-पाठः । २ 'यस्य नाम' इति घ-टी-पाठः । ३ 'द्रव्यजीव ' इति घ-टी-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org