________________
हेतु:
४२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ विधाः सप्त प्रकारा यस्य स सप्तविधः, अर्थोग्रंमाणत्वात्, एष सप्तविधोऽर्थ इति पदत्रयं
तत्त्वमित्यस्य विवरणम् , तत्त्वमिति वोऽव्युत्पत्तौ तथ्यं सद्भूतं परमार्थ तत्त्वमित्येकवचने
न इत्यर्थः । व्युत्पत्तौ तु जीवादीनामर्थानां या स्वसत्ता सोच्यते, तस्याश्च
सत्तायाः प्रतिभेदं प्रतिवस्तु यो भेदस्तमनादृत्यैकत्वमेकत्वाच्चैकवचनमुपात्तवान् ॥ अथैवं कश्चित् चोदयेत्-याऽसौ जीवादीनां सत्ता, सा न वैशेषिकैरिवास्माभिभिन्ना जीवादिभ्योऽभ्युपेयते यतोऽभिहितम्-"घडसत्ता घडधम्मो तत्तोऽणन्नो पडाइओ भिन्नो' (विशे० १७२२)"। तस्मात् प्रतिवस्तु सा भेत्तव्या, प्रतिवस्तु च भिद्यमाना बहुत्वं प्रतिपद्यत इति बहुत्वाद् बहुवचनेन भवितव्यम् तत्वानीति, उच्यते-सामान्येन विवक्षिता सती सैकत्वमिव बिभर्ति, मुख्यया तु कल्पनया वस्तुधर्मत्वात् प्रतिवस्तु भेत्तव्या भवति, तदा च बहुवचनेनैव भवितव्यमेवेति, एतदाह-एते वा सप्त पदार्थास्तत्त्वानीति । एते प्रारु प्रत्यक्षीकृताः । वाशब्दो हि प्रतिवस्तु भिद्यमानं तत्त्वं बहुत्वं प्रतिपद्यत इत्यस्य पक्षस्य सूचकः । सप्त च ते पदार्थाश्च सप्तपदार्थाः जीवादयः। तत्त्वानि दृश्यानि, पुण्यपापयोश्च बन्धेऽन्तर्भावान्न भेदेनोपादानम् । यद्येवमास्रवादयोऽपि पश्च तर्हि न जीवाजीवाभ्यां
आसवादीनां भिद्यन्ते । कथमिति चेत्, उच्यते-आस्रवो हि मिथ्यादर्शतत्त्वानां जीवा- नादिरूपः परिणामो जीवस्य । स च कः आत्मानं पुद्गलांश्च जीवयारन्तभावः विरहय्य ? । बन्धस्तु कर्म पुद्गलात्मकमात्मप्रदेशसंश्लिष्टम् । संवरोऽप्यास्रवनिरोधलक्षणो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपः । निर्जरा तु कर्मपरिशाटः, जीवः कर्मणां पार्थक्यमापादयति स्वशक्त्या। मोक्षोऽप्ययमात्मा समस्तकर्मविरहित इति । तस्मात् जीवाजीवास्तत्त्वमिति वाच्यम् । उच्यते-सत्यमेतदेवम्, किंतु इह शास्त्रे शिष्यः प्रवृत्ति कारितोऽस्मात् कारणात् ज्ञानादिकात् सेव्यमानाद् भवतो मोक्षावाप्तिर्भविष्यत्यन्यथा संसार इति, तस्य च यदि मुक्तिसंसारकारणे न भेदेनाख्यायेते ततोऽस्य सम्यक्प्रवृत्तिरेव न स्यात् । यदा त्वेवं कथ्यते, आस्रवो बन्धश्चैतदद्वयमपि मुख्यं तत्वं संसारकारणम, संवरनिर्जरे च मुख्यं तत्त्वं मोक्षकारणमिति, तदाऽनायासात संसारकारणानां हेयतया यतिष्यते मुक्तिकारणानां चादेयतयेति, तस्माच्छिष्यस्य हेयादेयप्रदर्शनायाऽऽस्रवादिचतुष्टयमुपात्तम् । यत् तु मुख्यं साध्यं मोक्षः यदी प्रवृत्तिस्तत् कथमिव न प्रदर्येतेति, तस्माद् युक्तं यत् पञ्चाप्युपादीयन्त इति । किं पुनरेषां जीवादीनां लक्षणमग्नेरिवौष्ण्यम् ? के वा भेदा जीवादीनां यथा तस्यैवाग्नेस्तार्णपाादय इत्युक्ते तान् लक्षणत इत्याद्याह । तान् जीवादीन् लक्षणतःस्वचिन, विधानतो-भेदेन, चशब्दाद् भेदानपि सप्रभेदान् वक्ष्यामि, पुरस्तात्उपरिष्टात्, किं सक्षेपेणोत विस्तरेण ? विस्तरेणेत्याह । कथमिति चेत्, उच्यते-जीवस्य लक्षणमिदमुपयोगलक्षणो जीव इति (२-८), तदेव लक्षणं विधानतः कथयिष्यति, स द्विविधः, साकारोऽनाकारश्च, पुनस्तावष्टचतुर्भेदाविति (२-९), तथा संसारिणो मुक्ताश्च
१ 'चाव्युत्पत्तौ' इति क-ख-पाठः। २घटसत्ता घटधर्मः तस्मादनन्यः पटादितो भिन्नः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org