________________
सूत्रं ४ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् लोक्य भवत्येव । परोपदेशात् परोपष्टम्भेन यदुदेति तत्वार्थेषु-जीवादिषु श्रद्धानं-रुचिस्तदधिगमसम्यग्दर्शनमिति ॥३॥
सम्प्रत्युत्तरसूत्रसम्बन्धं स्वयमेव लगयन्नाह
भा०-अत्राह तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्युक्तम् । तत्र किं तत्त्वमिति?। अत्रोच्यते ॥ ३॥
टी--अबाहेत्यादि । अत्र-एतस्मिंस्तत्त्वार्थश्रद्धानलक्षणे सम्यग्दर्शने विषयस्वरूपोपरक्ते व्याख्याते विषयविवेकमजानंश्चोदकोऽनूनुदत्-भवता तत्वार्थश्रद्धानं सम्यग्दर्शनमित्येतदुक्तं, तत्र किं तत्वमिति, तत्रेत्यनेन तत्त्वार्थश्रद्धानशब्दे यस्तत्त्वशब्दस्तत्र किं तत्त्वं किंतस्याभिधेयमिति ॥ ननु चायुक्तोऽयं प्रश्नो, भाष्ये तत्त्वस्य पुरस्तानिर्णयः कृत इति, तत्त्वानि जीवादीनि वक्ष्यन्ते त एवार्था इत्यस्मिन्, अतो निर्माते तत्त्वे. प्रश्नयतो जाडयमवसीयते, उच्यते-न. जाड्यात् प्रश्नः, सत्यमुक्तं तत्त्वानि जीवादीनि, आदिशब्देन तु अनेकस्याक्षेप इति नास्तीयत्ता, तस्माद भाष्याद् न निर्णयोऽतः इयत्तापरिज्ञानाय प्रश्नः । सूरिराह-अत्रोच्यते । अत्र भवत्प्रदर्शिते तत्वशब्दे यदभिधेयं तदियत्तया निवृत्तस्वरूपमुच्यतेसूत्रम्-जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥ १-४॥
टी०-जीवाजीवास्रव इत्यादिना । समासपदं चैतत्, समासपदे च विग्रहमन्तरेण न सुखेन प्रतिपत्तिः परस्मै शक्या कर्तुं इत्यतो विग्रहयति ।
भा०-जीवा अजीवा आस्रवा बन्धः संवरो निर्जरा मोक्ष इत्येष ससविधोऽर्थस्तत्त्वम् । एते वा सप्त पदार्थास्तत्त्वानि । तान् लक्षणतो विधानतश्च पुरस्ताद् विस्तरेणोपदेक्ष्यामः ॥४॥ टी०-जीवा अजीवा इत्यादि । जीवा औपेशमिकादिभावान्विताः साकाराना
कारप्रत्ययलाञ्छनाः शब्दादिविषयपरिच्छेदिनोऽतीतानागतवर्तमानेषु जीवादितत्त्वसप्त
तः समानकर्तृकक्रियाः तत्फलभुजः अमूर्तस्वभावाः । एभिरेव धर्मैर्वियुता कस्य स्वरूपम्।
- अजीवाः धर्मादयश्चत्वारोऽस्तिकायाः । आखूयते यैर्गृह्यते कर्म त आस्रवाः शुभाशुभकर्मादानहेतव इत्यर्थः । बन्धो नाम, तैरास्रवैर्हेतुभिरात्तस्य कर्मणः आत्मना सह संयोगः प्रकृत्यादिविशेषितः । तेषामेवास्रवाणां यो निरोधःस्थगनं गुप्त्यादिभिः स संवरः। कर्मणां तु विपाकात् तपसा वा यः शाटः सा निजेरा। ज्ञानशमवीर्यदर्शनात्यन्तिकैकान्तिकाबाधनिरुपमसुखात्मन आत्मनः स्वात्मन्यवस्थानं मोक्षः । इतिशब्द इयत्तायाम्, एतावानेव । एष इति भवतः प्रत्यक्षीकृतो वचनेन । सप्त
१ 'आस्रवः' इति क-ख-घ-टी-पाठः । २ 'उपशमिकादि' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org