________________
तस्वार्थाधिगमसूत्रम्
[ अध्यायः १ एनमेव च विप्रकीर्णमर्थमाख्यातवान् तानि तानीत्यादिना भाष्यग्रन्थेनोत्पद्यत इत्येवमन्तेन । अनादिमिथ्यादृष्टेरपि[इति ]। नास्यादिरस्तीत्यनादिः अनादिमिथ्यादृष्टिरस्येत्यनादिमिथ्यादृष्टिः-अप्राप्तपूर्वसम्यक्त्वलाभः, न चास्ति कश्चित् तादृक् कालो यस्मिन्नुपदिश्येतायं मिथ्यादर्शनं प्रतिपन्नवानिति । तथा चागमः "अत्थि अणन्ता जीवा जेहिं न पत्तो तसाइपरिणामो""। तस्यानादिमिथ्यादृष्टेः, अपिशब्दात् सादिमिथ्यादृष्टेरपि, यो हि भव्यः सम्यक्त्वं प्रतिपद्य प्राक पश्चादनन्तानुवन्धिकषायोदयाज्जातव्यलीको मनोज्ञपरमान्नबद्धमतिर्जघन्येनान्तर्मुहूर्त स्थित्वोत्कर्षेणापापुद्गलपरावर्त पुनः प्रतिपद्यमानः सादिमिथ्याहष्टिर्भवति, तस्यापि सती-भवतः परिणामविशेषात्, परिणामोऽध्यवसायश्चित्तं तस्य विशेषः स एव वा पूर्व जघन्यमङ्गीकृत्य परः परः शुभो विशेष इत्युच्यते, परिणामविशेषश्वेह यथाप्रवृत्तिकरणमभिमतं, ततः परं अपूर्वकरणं, अप्राप्तपूर्व तादृशं अध्यवसायान्तरं जीवेनेत्यपूर्वकरणमुच्यते ग्रन्थि विदारयतः, ततश्च ग्रन्थिभेदोत्तरकालभाव्यनिवृत्तिकरणमासादयति, यतस्तावन्न निवर्तते यावत् सम्यक्त्वं न लब्धमित्यतोऽनिवृत्तिकरणं, ग्रन्थान्तरे प्रसिद्धत्वात् भाष्यकारेणानिवृत्तिकरणं नोपात्तम् । अवश्यतया वा सम्यग्दर्शनं लभमानस्त ल्लभत इति काकाऽभ्युपेतमेव, तदभावेऽभावात् , अतो न कश्चिद् विरोध इति । सम्प्रति निगमयति-यदेवमुपजातमेतन्निसर्गसम्यग्दर्शन मिति । जीवस्य उपयोगस्वाभाव्यात् तदधिगमात् प्राप्यते । कोधिगम इति चेत् तदुच्यते--अधिगमोऽभिगम इत्यादि । गमेर्गत्यर्थस्वाज्ज्ञानार्थता, गमो ज्ञानं रुचिरिति, अधिको गमोऽधिकं ज्ञानम्, कथं वाधिक्यम् ? यस्मात् परतो निमित्ताद् भवति तदाधिक्यादधिकमुच्यते, अभिगमस्तु गुरुमाभिमुख्येनालम्व्य यज्ज्ञानं सोभिगमः । आगमस्त्वागच्छत्यव्यवंच्छित्या वर्णपदवाक्यराशिराप्तप्रणीतः प्रवापरविरोधशङ्कारहितस्तदालोचनात्तत्त्वरुचिरागम उच्यते, कारणे कार्योपचारात, नडलोदकं पादरोग इति। निमित्तं तु यद् यद् बाह्यं वस्तूत्पद्यमानस्य सम्यग्दर्शनस्य प्रतिमादि तत् तत् सर्वमागृहीतं, ततो निमित्तात् प्रतिमादिकात् सम्यक्त्वं निमित्तसम्यग्दर्शनमुच्यते। श्रवणं श्रुतिराकर्णनं ततो यज्जायते। शिक्षा-पुनः पुनरभ्यासः, आप्तप्रणीतग्रन्थानुसारी ततो यद भवति। उपदिशतीत्युपदेशो-गुरुरेव देववच्छब्दसंस्कारस्ततो यत् प्रादुरस्ति । एवमेते किश्चिद भेदं प्रतिपद्यमाना अनर्थान्तरमिति व्यपदिश्यन्ते । एवं पर्यायकथनं कृत्वा सम्पिण्डय कथयति-तदेवमित्यादिना ॥ तदधिगमसम्यग्दर्शनम्, एवमित्यनेनोक्तेन भेदनिरूपणेन यदभवति । परोपदेशादित्यनेन तु निमित्तमात्रमाक्षिप्तं ग्राह्यम्, अन्यथोपदेशाच्छब्दादिति [न] व्याप्तिराख्याता स्यात्, यतो न केवलं शब्दादेव भवति, किन्तु कस्यचिद् भव्यस्य प्रतिमाद्या
१ सन्ति अनन्ता जीवा यैः न प्राप्तः त्रसादिपरिणामः । २ 'यथेवमुपजातमेव । तनि.' इति क-ख-पाठः । ३ 'व्यवस्थित्या' इति ख--पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org