________________
सूत्रं ३]
स्वोपज्ञभाष्य-टीकालङ्कृतम् यतः सातसम्यक्त्वहास्यादिकाः प्रकृतयो विविधास्तासां फलमपि विविधमेवेति । तथा ज्ञानावरणाद्या अपि विविधास्तत्फलमपि विविधमुच्यते, पुण्यमनुग्रहकारि सातादि, पापमुपघातकारि ज्ञानादिगुणानाम्, तयोः पुण्यपापयोः फलं-स्वरसविपाकरूपं पुण्यपापफलम्, तदनुभवतो जीवस्योपभुञ्जानस्य, अनु पश्चादर्थे, पूर्व ग्रहणं पश्चात् फलोपभोग इति । कथमनुभवत इत्याह-ज्ञानदर्शनोपयोगस्वाभाव्यात्, ज्ञानदर्शने व्याख्याते तयोः स्वाभाव्यं तस्मात् ज्ञानदर्शनोपयोगस्वाभाव्यादिति । एतदुक्तं भवति–यदा यदोपभुङ्क्ते तदा तदा चेतयते सुख्यहं दुःखितोऽहमित्यादि, साकारानाकारोपयोगद्वयसमन्वितत्वादवश्यतया चेतयत इति, उत्तरग्रन्थेनापि सम्बन्धोऽस्य । तानि तानीत्यादि । ज्ञानदर्शनोपयोगस्वाभाव्यादेव तानि तानि परिणामान्तराणि याति न तु ताभ्यां रहित इति । तानि तानीति मुहूर्ताभ्यन्तरेऽपि मनसश्चलत्वाद् बहूनि गच्छति, तानि चेह शुभानि ग्राह्याणि, यतो दर्शनं सम्प्राप्नोति शुभाज्ञा(?)मास्कन्दन्निति, तेषां बहुत्वाद वीप्सया निर्दिशति । अथवा यान्येव पूर्वाण्यध्यवसायान्तराणि तान्येव पराध्यवसायतया वर्तन्त इत्यन्वयं दर्शयति—परिणामश्चानेकरूपो विज्ञानादिस्वभावः चेतनाचेतनद्रव्यगतः, तत्राचेतनः परमाण्वादीनां शुक्लादिः, चेतनस्य तु विज्ञानदर्शनादिर्विषयस्वरूपपरिच्छेदात्मकः । तथा देवाद्यवस्थाऽपुद्गलात्मिका अविवक्षितचेतनाभावाऽचेतनास्वभावा वेति । अतः परिणामस्य व्यभिचारे विशेषणोपादानमर्थवत्पश्यन्नुवाचेदं परिणामोऽध्यवसायरूप इति । तस्य स्थानान्तराणि मलीमसमध्यतीवाणि, शुभे जघन्ये वर्तित्वात् ततो विशुद्धतरं स्थानमन्यदारोहति, ततोऽपि विशुद्धतममपरमधिगच्छतः प्राप्नुवतो वर्धमानशुभपरिणतेरित्यर्थः, अनेन च गच्छत इति समस्तमिदं चतुर्विधसामायिकोत्पादकाण्डं सूचितं भवति ॥
"सत्तण्हं पयडीणं अन्भिन्तरओ उ कोडिकोडीए । काऊणःसागराणं जइ लहइ चउण्णमेगयरं ॥""
-विशेषावश्यके गा० ११९३ अत्र बहु वक्तव्यमित्यतः प्रकृतोपयोगि केवलमुच्यते । स खलु जीवस्तानि शुभान्य___ ध्यवसायान्तराण्यास्कन्दननाभोगनिर्वर्तितेन यथाप्रवृत्तिकरणेन तामुत्कृष्टां य. कर्मस्थितिमव हास्य कोटीकोट्याः सागरोपमानामन्तः क्षपयंस्तावत् प्राप
यति यावत् तस्या अपि पल्योपमासङ्ख्येयभागः क्षपितो भवति तस्मिन् स्थाने प्राप्तस्यातिप्रकृष्टयनरागद्वेषपरिणामजनितः वज्राश्मवद् दुर्भेदकठिनरूढगूढग्रन्थिर्जायते, तत्र कश्चिद् भव्यसत्त्वस्तं भित्त्वाऽपूर्वकरणबलेन प्राप्तानिवृत्तिकरणस्तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमासादयति, कश्चिद् ग्रन्थिस्थानादधो निवर्तते, कश्चित् तत्रैवावतिष्ठते, न परतो नाधः प्रसर्पतीति । अत्र चोपदेष्टारमन्तरेण यत् सम्यक्त्वं तन्नैसर्गिकमाचक्षते प्रवचनवृद्धाः ।
१ सप्तानां प्रकृतीनां आभ्यन्तरं तु कोटिकोटयाः। कृत्वा सागरोपमाणां यदा लभते चतुर्णामेकतरत् ॥
निसर्गाध्यवसाय.
प्राप्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org