________________
३८
तत्वार्थाधिगमसूत्रम्
[ अध्यायः १
स्थितिबन्धादि
प्रतिषिद्धश्च कर्ता । तदपि वा कर्मत एव बध्यते कर्मत्वादिदानीन्तनकर्मवत् । एवंविधस्यास्योपात्तस्य कर्मणः फलमनुभवत इति । किमपेक्षं पुनस्तत्फलमाह - बन्धनिकाचनोदयनिर्जरापेक्षमिति । बन्धो नाम यदाऽऽत्मा रागद्वेषस्नेहलेशावलीढसकलात्मप्रदेशो भवति तदा येष्वेवाकाशदेशेष्ववगाढस्तेष्वेवावस्थितान् स्वरूपम् कार्मणविग्रहयोग्याननेकरूपान् पुद्गलान् स्कन्धी भूतानाहारवदात्मनि परिणामयति सम्बन्धयतीति स्वात्मा ततस्तानध्यवसायविशेषाज्ज्ञानादीनां गुणानामावरणतया विभजते हंसः क्षीरोदके यथा यथा वा आहारकाले परिणतिविशेपक्रमवशादाहर्ता रसखलतया परिणतिमानयत्यनाभोगवीर्यसामर्थ्यात्, एवमिहाप्यध्यवसायविशेषात् किश्चिद् ज्ञानावरणीयतया किश्चिद् दर्शनाच्छादकत्वेनापरं सुखदुःखानुभवयोग्यतया परं च दर्शने चरणव्यामोहकारितयाऽन्यन्नारक तिर्यङ्मनुष्यामरायुष्केनान्यद् गतिशरीराद्याकारेणाऽपरमुच्चनीच गोत्रानुभावेनाऽन्यद् दानाद्यन्तरायकारितया व्यवस्थापयति । एष प्रकृतिबन्धः। स्थितिबन्धस्तु, तस्यैवं प्रविभक्तस्य अध्यवसाय विशेषादेव जघन्यमध्यमोत्कृष्टां स्थिति निर्वर्तयति ज्ञानावरणादिकस्यैष स्थितिबन्धः । अनुभावबन्धस्तु, कृतस्थितिकस्य स्वस्मिन् काले परिपाकमितस्य याऽनुभूयमानावस्था शुभाशुभाकारेण घृतक्षीरकोशातकीरसोदाहृतिसाम्यात्सोऽनुभावबन्धः । प्रदेशबन्धस्तु, अनन्तानन्तप्रदेशान् स्कन्धानादायैकैकस्मिन् प्रदेशे एकैकस्य कर्मणो ज्ञानावरणादिकस्य व्यवस्थापयतीत्येष प्रदेशबन्ध इति । निकाचना तु स्पृष्टानन्तरभाविनी, स्पृष्टता तु नोक्ता भाष्यकारेण पृथग् निकाचनाभेद एवेतिकृत्वा । कथमिति चेत्, भावयामः, बद्धं नामात्मप्रदेशैः सह श्लिष्टं यथा सूचयः कलापीकृताः परस्परेण बद्धाः कथ्यन्ते, ता एवानौ प्रतिक्षिप्तास्ताडिताः समभिव्यज्यमानान्तराः स्पृष्टा इति व्यपदिश्यन्ते, ता एव यदा पुनः पुनः प्रताप्य घनं घनेन ताडिताः प्रनष्टस्वविभागा एकपिण्डतामितास्तदा निकाचिता इति व्यपदेशमनुवते, एवं कर्माप्यात्मप्रदेशेषु योजनीयम् । तस्यैवं निकाचितस्य प्रकृत्यादिबन्धरूपेणावस्थितस्य उदद्यावलिकाप्रविष्टस्य प्रतिक्षणमुदयमादर्शयतो यावस्था शुभाशुभानुभावलक्षणा स उदयो विपाक इति । उद्यानुभावसमनन्तरमेवापेतस्नेहलेशं परिशत् प्रतिसमयं कर्म निर्जराव्यपदेशमङ्गीकरोतीति । बन्धादयः कृतद्वन्द्वास्ता अपेक्षत इति कर्मण्यण् । बन्धनिकाचनोदयनिर्जरापेक्षं, किं तत् फलं, कथं पुनस्तत्फलं बन्धाद्यपेक्षते ? उच्यतेयतो बन्धादिष्वसत्सु न तत्सम्भव इति । क ? अनुभवतो, नन्वभिहितमनादौ संसार इति, स पुनः किंभेद इति एतत् कथयति - नार केत्यादि । नारकतिरथोयोनिः - उत्पत्तिस्थानम्, तच्च द्वितीये वक्ष्यत इति । मनुष्याश्चामराश्च तेषां भवः: - प्रादुर्भावस्ते भवन्ति यत्र । ग्रहणानि - आदानानि तच्छरीरग्रहणानि इत्यर्थः । तेषु च तेषु भवेषु अनादिसंसारात्मसु, विविध मित्यनेकविधम्,
१ 'तीति ततः' इति ग-पाठः । २ ' दर्शनावरण' इति ख-टी- पाठः । ३ 'समभिपद्यमानान्तरा' इति खटी-पाठः । ४ ' क्वानुभवो ' इति क-ख- पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org