SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सूत्रं ३ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् येऽपि हि प्रकृष्टावरणकर्मपटलाच्छादिता निगोदादयः पञ्चैकेन्द्रिया जीवनिकायास्तेऽपि साकारानाकारोपयोगयुक्ता इति । यतः स्पर्शनेन्द्रियं हि तेषामस्ति, तच्च साकारानाकारोपयोगस्वरूपमतो व्यापिलक्षणम् । ज्ञानदर्शनोपयोगौ लक्षणमस्त्येतत् सूक्तमिति । इतिशब्दः एवकारार्थ, जीव एवोपयोगलक्षणो न परमाण्वादय इति । वक्ष्यते-अभिधास्यते, उपयोगलक्षणो जीव इत्यस्मिन् द्वितीयाध्यायवर्तिनि सूत्रे, अतो निर्घातस्वरूपस्य जीवस्य स निसर्गरूपः परिणाम इति । यदप्युक्तं कथं प्राप्यत इति, तत् कथयति-तस्यानादावित्यादिना । तस्येति निधारितस्वरूपं जीवमाह । तस्य जीवस्यानुभवत इत्यनेन निसर्गप्राप्तिरीतिः सहाभिसम्बन्धः । तथा स्थानान्तराणि गच्छतोऽनादिमिथ्यादृष्टेरपि सत एतानि सर्वाणि जीवविशेषणानि । अनादौ संसार इत्यस्य तु नरकादिभवग्रहणेष्वित्येतद विशेषणम्, कर्मत एव कर्मणः स्वकृतस्येति त्रयाणां विशेषणविशेष्यता, बन्धनिकाचनोदयनिर्जरापेक्षं विविधं इत्येतद् द्वयं पुण्यपापफलमित्यस्य विशेषणम्, अनुभवत इत्यस्य तु हेतुग्रन्थोऽयं ज्ञानदर्शनोपयोगस्वाभाव्यादिति, तानि तानीत्यादिपदद्वयं गच्छत इत्यस्य व्याप्यं कर्म, एवं सम्बन्धे कथिते विवृणोति-अविद्यमान आदिरस्य सोऽयम् अनादिः, न खलु संसारस्यादिदृष्टः केवलज्योतिषाऽपि प्रकाशिते समस्तज्ञेयराशी, अतस्तस्याभावादनुपलब्धिः, न तु ज्ञानस्याशक्तिहणं प्रतीति । सन्धावन्ति यत्र वकर्मभिः प्रेर्यमाणा जन्तवः स संसार इति, उत्पत्तिस्थानानि नरकादीनि, निश्चयनयस्य तु सर्व स्वप्रतिष्ठं वस्त्विति आत्मैव, त एव वा प्राणिनः सन्धावन्तस्तांस्तान् परिणामानारकादीन् संसार इति कथ्यते, अनादौ संसार इति च सृष्टिं निरस्यति । नहि कश्चिज्जगतः स्रष्टा कर्ता समस्ति पुरुषः, यथैव हि तेन केनचित् सृष्टाः प्राण्यादि (१)जगत्कर्तृत्ववाद- . स्तत्ववादः मन्तस्तथाऽन्येऽपि प्राणिनः । कञन्तराभ्युपगमे चानवस्था । सति निरास: चोपकरणकलापे दलिकद्रव्ये च निपुणाः कुम्भकारादयः कार्योत्पादाय यतमानाः फलेन युज्यन्ते नान्यथा, न चाकाशादीनां कारणमुपलभ्यते किञ्चित्, नापि किञ्चित् सर्गे जगतः स्रष्टुः प्रयोजनमस्ति प्रेक्षापूर्वकारिणः । क्रीडाद्यर्थमिति चेत्, कुतः सर्गशक्तिः ? प्राकृतत्वात् । सुखितदुःखितदेवनारकसत्त्वोत्पादने चाकस्मिकः पक्षपातो द्वेषिता चेति । एवं कार्यकारणसम्बन्धः समवायपरिणामनिमित्तनिर्वर्तकादिरूपः सिद्धिविनिश्चय-मृष्टिपरीक्षातो योजनीयो विशेषार्थिना दूषणद्वारेणेति । कर्मत इति पञ्चमी, ज्ञानावरणादिकाष्टविधादुदयप्राप्तात् क्रोधाद्याकारपरिणामहेतुकात् यद्यदन्यत् कर्मोपचितज्ञानावरणादि तस्य कर्मणः स्वकृतस्येति । तच्च कर्मतो यदुपादायि कर्म तत् स्वेनात्मना कृतं न पुनःप्रजापतिप्रभृतिना तत् कर्म संश्लेषितमात्मसामर्थ्यात्,एतत् स्याद् यदाऽऽदिकर्म प्रजापतिरकरोत् सर्वप्राणिनां ततोऽन्या कर्मसन्ततिः स्वकृतेतीष्टमेव प्रसाधितमिति, उच्यते-एवमर्थमेवैवकारः प्रयुज्यते, कर्मत एव सर्व कर्म बध्यते, अनादित्वात्, संसृतेरादिकमैंव नास्ति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy