________________
सूत्र २]
स्वोपक्षभाष्य टीकालङ्कृतम् सम्यग्दर्शन मिति लक्ष्यं लक्षति, तत्त्वेनेति कोऽर्थ इत्यत आह-तत्त्वेन भावतो निश्चितमित्यर्थ इति । तत्त्वेनेत्यस्य विवरणं, भावेनेति चोपयुक्तस्य निश्चयनयमताल्लभ्यत इति कथयति । अथवा भावेनेति स्वप्रतिपत्त्या, नो मातापित्रादिदाक्षिण्यानुरोधात् न वा धनादिलाभापेक्षकृतकमात्रश्रद्धानं निश्चितपरिज्ञानं तदेव तथ्यं यजिनैर्भाषितमुपलब्धं वा, इत्येवं समासकल्पनाद्वयं निर्दिश्यावयवार्थ दर्शयन्नाह-तत्त्वानीत्यादि । तत्त्वानि इत्यविपरीतभावव्यवस्थानि नियतानि जीवादीनि इति । जीवा उपयोगलक्षणा (२-८) आदिर्येषां सूत्रक्रममाश्रित्य तानि जीवादीनि । तत्त्वार्थशब्दयोर्विशेष्यकल्पनामाश्रित्याह-त एव चार्थी इति । त एव चेति अर्थापेक्षया पुंल्लिङ्गनिर्देशः, त एव जीवादयः, अर्था अर्यमाणत्वाद् अनादिसादिपारिणामिकादिना भावेन जीवपुद्गला अनादिपारिणामिकेन च जीवत्वेनोपयोगस्वरूपेण सादिपारिणामिकेन च मनुष्यनारकतिर्यग्देवादिना, पुद्गला अप्यजीवत्वेनानुपयोगस्वरूपेणानादिपारिणामिकेन च सादिपारिणामिकेन कृष्णनीलादिना परिच्छिद्यमानत्वात् अर्था इत्युच्यन्ते । धर्माधर्माकाशास्तु अनादिपारिणामिकेनैव गतिस्थित्यवगाहस्वभावेन परिच्छिद्यन्ते, यतो न कदाचित् तामवस्थामत्याक्षुस्त्यजन्ति त्यक्ष्यन्ति वा। परतस्तु सादिपारिणामिकेनापि परिच्छिद्यन्त एव, यथोक्तमाकाशादीनां त्रयाणां परप्रत्ययो नियमत इत्यतः परिच्छिद्यमानत्वादी इत्युच्यन्ते ॥ श्रद्धानमित्यस्यार्थ निरूपयति-श्रद्धानं तेषु प्रत्ययावधारणमिति । अनेन श्रद्धानमित्येतल्लक्षणं तेषु प्रत्ययावधारणमिति कथयति । तेषु
। इति जीवादिषु ॥ ननु च षष्ठयर्थ प्राक् प्रदर्य सप्तम्यर्थकथनमिषष्ठीसप्तम्योः
1 कथंचिदभेदः
दानीमसाम्प्रतमिति । उच्यते-एतत् कथयति, प्रायः षष्ठीसप्तम्योर
भेद एव दृश्यते, यथा गिरेस्तरवः गिरौ तरव इति, ये हि तस्यावयवास्ते तस्मिन् भवन्ति, एवमत्रापि यज्जीवादीनां श्रद्धानं तज्जीवादिषु विषयेषु भवतीति न दोषः । प्रत्ययावधारणमिति, प्रत्ययेन प्रत्ययात् प्रत्यये प्रत्ययस्थावधारणमिति । यदा तावत् प्रत्ययेनावधारणं, तदा आलोचनाज्ञानेन श्रुताद्यालोच्य एवमेतत् तत्त्वमवस्थितमित्यवधारयति । अवधारणमिति च कर्तरि भावे वा, जीवोऽवधारयति, तस्य चावधारणं रुचिरिति । अथवा प्रत्ययेनेति कारणेन निमित्तेनावधारणम् । किं निमित्तमिति चेत्, तदावरणीयकर्मणां क्षयः क्षयोपशमो वा, तेन निमित्तेनावधारयति एतदेव तत्त्वम् । अथवा उत्पत्तिकारणं प्रत्ययः, स्वभावोऽधिगमो वा, तेन प्रत्ययेन कारणेनेति, एवं तत्त्वमवस्थितमित्यवधारयति । तस्माद् वा क्षयादिकादवधारणम् । सति वा तस्मिन्नवधारयति । षष्ठीपक्षेऽपि प्रत्ययस्य-विज्ञानस्यावधारणं अन्यमतपरिकल्पिततत्त्वादपास्य तद्विज्ञानं जैन एव सत्वेऽवधारयति, एतदेव तत्त्वं शेषोऽपरमार्थ इति । एवं तत्त्वार्थश्रद्धानमिति विवृतं पदं, सम्यग्दर्शनमिति तु पूर्वयोग एव विवृतं न तद् विवृणोति । एतत् पुनः सम्यग्दर्शनं कथमुत्पनं सत् परेण ज्ञायते किं चिह्नमस्योत्पन्नस्येति ? चिह्न दर्शयति-तदेवमित्यादि । तद् इति तत्त्वार्थश्रद्धानं निर्दिशति । एवमित्यवय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org