________________
3४
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः १ वप्रतिभागेन निर्धारित प्रशमादिचिह्नमवबुध्यस्व । सुपरीक्षितप्रवक्तृप्रवाच्यप्रवचनतत्त्वा
भिनिवेशाद् दोषाणामुपशमात् प्रशम इत्युच्यते, इन्द्रियार्थपरिभोगप्रशमादिव्याख्या व्यावृत्तिर्वा प्रशमः, तस्य प्रशमस्याभिव्यक्तिः-आविर्भावश्चिह्न लक्षणं
भवति सम्यग्दर्शनस्य । यो धतत्त्वं विहायात्मतातत्त्वं प्रतिपन्नः स लक्ष्यते सम्यग्दर्शनसम्पन्न इति। संवेगः-सम्भीतिः जैनप्रवचनानुसाराद् यस्य भयं नरकादिगत्यवलोकनाद् भवति, त एव जीवाः स्वकृतकर्मोदयान्नरकेषु तिर्यक्षु मनुजेषु महद् दुःखं शारीरमानसशीतोष्णादिद्वन्द्वापातजनितं भारारोपणाद्यनेकविधं दारिद्यदौर्भाग्यादि चानुभवति तद् यथैतन् न भविष्यति तथा यत्नं करोमीत्यनेनापि संवेगेन लक्ष्यते, समस्त्यस्य सम्यग्दर्शनमिति । निर्वेदो-विषयेष्वनभिषङ्गोऽहंदुपदेशानुसारितया यस्य भवति, यथेहलोक एव प्राणिनां दुरन्तकामभोगाध्यवसायोऽनेकोपद्रवफलः परलोकेऽप्यतिकटुकनरकतिर्यग्मनुष्यजन्मफलप्रद इत्यतो न किञ्चिदनेन उज्झितव्य एवायमतिप्रयत्नेनेत्येवंविधनिर्वेदाभिलक्ष्यं सम्यग्दर्शनमिति । अनुकम्पा-घृणा कारुण्यं सत्त्वानामुपरि, यथा सर्व एव सत्त्वाः सुखार्थिनो दुःखग्रहाणार्थिनश्च, नैतेषामल्पापि पीडा मया कार्येति निश्चित्य चेतसाऽऽइँण प्रवर्तते स्वहितमभिवाञ्छनित्यनेनापि चिह्नयते रुचिस्तत्त्वप्रवणा। आस्तिक्यमिति अस्त्यात्मादिपदार्थकदम्बकमित्येषा मतिर्यस्य स आस्तिकः तस्य भावः तथापरिणामवृत्तिता आस्तिक्यम्, सन्ति खलु जैनेन्द्रप्रवचनोपदिष्टा जीवपरलोकादयः सर्वेऽर्था अतीन्द्रिया इति, एवंरूपेणाप्यास्तिक्येन ज्ञायते सम्यग्दर्शनयुक्तोऽयमिति । अत एवैषां प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यानां अभिव्यक्तिः-उद्भवो-जन्म सैव लक्षणं-चिह्नमस्योत्पन्नस्येति। मौनीन्द्रप्रवचनानुसाराच्च, यदा प्रशमादय आश्रीयन्ते तदा यदपरे चोदयन्ति मिथ्यादृष्टेरप्येवं सम्यग्दर्शनं चिन्हयेतेति तद् दूरांपास्तं भवति । नहि तेषामहेदुपदेशानुसारात् प्रशमादयो जायन्ते, तद्विपरीतमिथ्याज्ञानसमन्वयात् तु यथाकथञ्चिदविदितपरमार्थाः प्रवर्तमानाः प्रशमादिवातेन पीडयन्ते । सम्प्रति व्याख्याय रुचेलक्षणं निगमयति-तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति । सामानाधिकरण्यं चातः कृतवान् , न यतोऽस्त्यनयोरन्यत्वरूपो भेद इति यथानेभिन्नरूपो धूमः, यथाऽग्निरुष्ण इत्येवं तत्त्वार्थश्रद्धानं सम्यग्दर्शन मिति ॥ २॥
एवं निर्धारिते सम्यग्दर्शनस्वरूपे आह-सर्व वत्पद्यमानं वस्तु हेतुमपेक्ष्योत्पद्यते घटादय इव मृदादिना, एवमिदं प्रागवस्थायां मिथ्यादृष्टेरप्रकटीभूतमुत्तरकालमुपजायमानं प्रशमादिना लक्ष्यते, तस्य पुनरुत्पत्ती को हेतुरित्युच्यते
सूत्रम्-तनिसर्गादधिगमाद् वा ॥ १-३॥ टी०-तच्छब्द एतच्छब्दार्थे मत्वेत्याह१ ' सर्वेषामतीन्द्रियाः' इति ख-पाठः । २ ‘दूरादपास्तं' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org