________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ आंदप्रभेदादिभिः पदाधभिप्रायः प्रकाशनीयः, तत्र प्रधानशब्दस्य तदर्थशब्दान्तराणि पर्यायाः, प्रकृतिप्रत्ययादिनिर्भेदेन तथा गृहीतान्वर्थशब्दविवरणं निर्भेदः, तथा वाक्यान्तरेण निरूपणं प्रभेदः, तत्रेदं सूत्रं वाक्यान्तरनिरूपणद्वारेण प्राणायि सूरिणा। अथवा समुदायो मुक्तेः कारणतया निरूपित इति, न च समुदायिष्वपरिज्ञातेषु तत् परिज्ञानमस्तीत्याद्यस्य लक्षणप्रचिकासयिषया सूत्रं पपाठ ॥
सूत्रम्-तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ १.२ ॥ टी०-तत्त्वार्थेत्यादि। अनेकसमासकल्पनासम्भवे यत्र सुखेन बुद्धिराधातुं शक्यते प्रतिपिपादयिषितार्थप्रवणा तां कल्पनामुपन्यस्यति ॥
भा०-तत्त्वानामर्थानां श्रद्धानं, तत्वेन वा अर्थानां श्रद्धानं तत्त्वार्थश्रद्धानं, तत् सम्यग्दर्शनम् । तत्त्वेन भावतो निश्चितमित्यर्थः। तत्त्वानि जीवादीनि वक्ष्यन्ते (१-४)। त एव चाथोंः, तेषां श्रद्धानं तेषु प्रत्ययावधारणम् । तदेवं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति ॥२॥
टी०-तत्त्वानामर्थानामिति । तत्त्वानाम् अविपरीतानां, के वा अविपरीताः ? ये स्याद्वादकेसरिगोचरमनतिक्रम्य स्थिताः, ये त्वेकनयकल्पकविलोकितास्ते विपरीताः । अर्थानामिति, अर्यमाणानां स्वैः स्वैर्ज्ञानविशेषैः परिच्छिद्यमानानां, श्रद्धानं रुचिरभिप्रीतिः सम्यग्दर्शनं, यथार्हता विगतरागद्वेषप्रपञ्चेन जगदे जगदेकवन्धुना तथेदं सत्यं जीवादिवस्तु ।
ननु च व्यभिचारे सति विशेषणविशेष्यकल्पना न्याय्या यथा नीलोतत्त्वार्थस्यार्थः पलादिषु, इह तु यत् तत्त्वं तन्नार्थ विहायान्यद् भवितुमर्हति अर्थो
वा तत्त्वमन्तरेणेति यदेव तत्त्वं स एवार्थो य एव चार्थस्तदेव तत्त्वमिति पुनरुक्तारेका । उच्यते । परमतापेक्षं विशेषणमित्यर्थस्य तत्त्वमुपात्तं, यतः काणभुजमतनिरूपितो बुद्धकपिलायुक्तश्चार्थों व्यभिचारी, सत्ताद्रव्यत्वादिसामान्यविशेषरूपं परित्यक्तपरस्परस्वात्मा खपुष्पवदसन्नेवेष्यते, नहि विशेषाः सम्भावयितुं शक्याः अन्वयिनैकेन शून्याः, न चास्ति सामान्यं, निर्विशेषत्वात् इत्यादिदोषसंस्पर्शपरिजिहीर्षया विशेषणमाश्रीयते, तस्यानर्थत्वादेकनयाभिप्रायमात्रत्वादिति, अतो व्यभिचाराद् युक्तं तत्त्वशब्दोपादानम् , स्वमतमप्यङ्गीकृत्यैकनयावलम्बनमनर्थ एव तत्त्वशब्देन व्युदस्यते ॥ अथवा किमस्माकं परमतेनैकनयावलम्बनेन च यदेव निःशकं तदेवाश्रयाम इति विग्रहान्तरं दर्शयन्नाह-तत्त्वेन वाऽर्थानां श्रद्धानमिति । इदमप्यर्थकथनं न तु त्रिपदस्तृतीयातत्पुरुषः सम्भवति, एवं च दृश्यम्-अर्थानां श्रद्धानमर्थश्रद्धानं तत्वेनार्थश्रद्धानं तत्त्वार्थश्रद्धानमिति, वाशब्दः पक्षान्तरप्रदर्शनार्थः, अयं वा पक्ष आस्थेय इति । तत् इति पूर्वसूत्रोक्तं निर्दिशति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org