________________
प्राप्ति
सूत्रं १]
स्वोपज्ञभाष्य-टीकालङ्कृतम् व्यभिचारिणी, सा च एकनयमतावलम्बिनी, सामान्यमेवास्ति न विशेषाः सन्ति, विशेषमात्रं वा समस्ति न सामान्यमित्यादिका, यतः सा नयान्तरेणापक्षिप्यते असत्यत्वात्, अतो व्यभिचारिणी, न व्यभिचारिणी अव्यभिचारिणी, का, या सर्वान्नयवादान् साकल्येन परिगृह्य प्रवृत्ता कथञ्चित् सामान्यं द्रव्यास्तिकाज्ञाच्छन्दतः सत्यं विशेषाश्च पर्यायावलम्बनमात्रसत्या इत्यादिप्रपञ्चेनाव्यभिचारिणी, तां कथयति-सर्वेन्द्रियानिन्द्रियार्थप्राप्तिरिति ।
- सर्वाणि निरवशेषाणि, इन्द्रियानिन्द्रियाणि, इन्द्रस्याजीवस्य शन्द्रयानिन्द्रिय लिङ्गानि श्रोत्रादीनि पञ्च, अनिन्द्रियं, मनोवृत्तिरोधज्ञानं चेति ।
- श्रोत्रादीनां पश्चानां द्वयोश्वानिन्द्रिययोरर्थो विषयः शब्दादिः परिच्छेद्यः, श्रोत्रादिपरिच्छिन्नार्थानुसन्धायि च मनोविज्ञानमनुप्रवृत्तेः । ओघज्ञानमनिन्द्रियजमेवेन्द्रियानुसारिविज्ञाननिरपेक्षं, 'पृष्ठत उपसर्पन्तं सर्प बुद्धचैव पश्यन्ती'ति वचनात्, वल्लयादीनां नीवाद्यभिसर्पणज्ञानं कचिन्मनोनिरपेक्षमिति, अतस्तेषामिन्द्रियानिन्द्रियार्थानामुपलब्धिः-प्राप्तिः स्वतः परतो वा तदर्थप्रकाशनोत्तरकालभाविनी ग्राह्या, न तु तेषां सर्वेन्द्रियाद्यर्थानां सन्निकर्षमात्रप्राप्तिरभिप्रेता, न च सर्वेन्द्रियाणां स्वेन विषयेण सहाश्लेषः समस्ति, यतश्चक्षुः स्वदेशस्थं योग्यदेशव्यवस्थित रूपमारूपयति, नास्य गमने सामर्थ्यमस्ति, अप्राप्यकारित्वात् । श्रोत्रादीनि तु प्राप्तार्थग्राहीणि, प्राप्यकारित्वात् चत्वारि, मनोविज्ञानं तु तत्पृष्ठानुसारिविकल्पकम् , अतोऽव्यभिचारिणी सर्वेन्द्रियाद्युपलब्धिः, इदमेव तत्त्वं परमार्थ: शेषः परमार्थो न भवति । एतत्सम्यग्दर्शनम् । सम्प्रति निपाते सम्यकूशब्दे गृहीते योऽर्थस्तं भावार्थं च दर्शयति–प्रशस्तं दर्शनं सम्यग्दर्शनमिति । अविपरीतानां द्रव्यभावानां जगन्नाथाभिहितानामालम्बिका प्रवृत्तिः रुचिलक्षणा सा प्रशस्तं दर्शनमिति, प्रशस्तमुक्तिसुखहेतुत्वात् । तथा व्युत्पत्तिपक्षाश्रितो योऽर्थस्तं कथयति-सङ्गतं वा दर्शनं सम्यग्दर्शनमिति । नित्यानित्यसदसत्सामान्यविशेषेषु जैनप्रवचनानुसारात् तस्यैव विज्ञानस्य नयद्वयसमारोपणेन च प्रवृत्तिः सा सङ्गतमिति व्यपदिष्टा । एवं सम्यग्दर्शनशब्दावयवान्वाख्यानं कुर्वता भाष्यकृता सम्यग्ज्ञानचारित्रयोरपि काका कृतम् । सम्यग्ज्ञानशब्देऽपि सम्यकशब्दः प्रशंसार्थो निपातः समञ्चतेर्वा, ज्ञानमिति च भाव एव, एवं चारित्रमपि, स्वस्थाने च विशेषमाविष्करिष्याम इति ॥१॥
सम्प्रति सम्यग्दर्शनादीनां यथाक्रमसनिविष्टानामाद्यस्यैव लक्षणं यथोद्देशस्तथा निर्देश इत्यभिधातुकाम आह-"तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" (१-२)। ‘पदाक्षरवचनवाक्यानामभिप्रायविवरणं व्याख्ये'ति वचनात् । प्रागवाचि वाचकमुख्येन “लक्षणतो विधानतश्चोपदेक्ष्यामः " (१-१) इति, सत्यपि प्रमाणनयनिर्देशसदसदायनेकानुयोगद्वारव्याख्याविकल्पे पुनः पुनस्तत्र तत्रैतदेव द्वयमुपन्यस्यन् भाष्याभिप्रायमाविष्करोति सूरिः लक्षणविधाने एवास्मिन् शास्त्रे च प्रधानाधिकारिके इत्यतो लक्षणमुपन्यसति । अत्र पर्यायनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org