________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ सम्यागिति प्रशंसाओं निपातः, समञ्चतेर्वा भावः । दर्शनमिति दृशेरव्यभिचारिणी सन्द्रियानिन्द्रियार्थप्राप्तिः, एतत् सम्यग्दर्शनम् । प्रशस्तं दर्शनं सम्यग्दर्शनम् । सङ्गतं वा दर्शनं सम्यग्दर्शनम् । एवं ज्ञानचारित्रयोरपि ॥ १॥
टी०-अर्हदभिहिताशेषद्रव्यपर्यायप्रपञ्चविषया तदुपधातिमिथ्यादर्शनाद्यनन्तानुबन्धिकषायक्षयादिप्रादुर्भूता रुचिर्जीवस्यैव सम्यग्दर्शनमुच्यते, सम्यग्ज्ञानं तु लक्ष्यलक्षणव्यवहाराव्यभिचारात्मकं ज्ञानावरणकर्मक्षयक्षयोपशमसमुत्थं मत्यादिभेदं, सम्यक्चारित्रं तु ज्ञानपूर्वकं चारित्रावृतिकर्मक्षयक्षयोपशमोपशमसमुत्थं सामायिकादिभेदं
_ सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणं मूलोत्तरगुणशाखाप्रशाखम् ॥ अत्र सम्यक्शब्द भाष्ये चोदयति-अथ किमर्थं प्रत्येकं सम्यकशब्दः प्रयुज्यते ? फलम्
___ यावता सम्यग्दर्शने सति यज् ज्ञानं चरणं वा तत्सम्यगेव भवतीत्यतो न सम्यकशब्दोऽनयोर्विशेषणतयोपादेयः । उच्यते-सत्यमेतत्, किन्तु न ज्ञानमात्रमत्र विवक्षितं, चारित्रमानं वा, किन्तु विशेषरूपे उभे अपि, इतरथा हि सम्यग्दर्शनसम्पन्ने विद्येते सम्यग्ज्ञानसम्यकचारित्रे न तु ते साक्षान्मोक्षमार्गतां बिभृत इति एतत्, नैव तत्र सम्यरुचारित्रसम्भव इति । तच्च न, यतो देशरूपेऽपि चारित्रे चारित्रशब्दो वर्तत एव-तच्चाज्ञाभिमतचारित्रात् सम्यक्शब्दविशेषणेन व्यावर्त्यत इति । स्यादेवं तत्राशङ्का-किं ते भवतो मोक्षकारणे उत मा भूतां ? तदाशङ्कानिरासार्थ सम्यगिति ज्ञानचरणयोरुपाधित्वेनोपादायि सुरिणा । अथवा दर्शनज्ञानचारित्राणां त्रयाणामपि व्यभिचार उपलभ्यते, यतो मिथ्यादर्शनपुद्गलोदये जीवस्य मिथ्यादर्शनं मिथ्याज्ञानं मिथ्याचारित्रमिति मुक्तेरसाधकत्वान् मिथ्याशब्देन विशेष्यन्ते, तान्येव सम्यग्दृष्टेमुक्तिसाधनत्वाद् यथार्थवाहित्वाच सम्यक्शब्देन विशेष्यन्ते, दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्राणि सम्यक् च तानि दर्शनादीनि चेति सम्यग्दर्शनज्ञानचारित्राणीति, अतो व्यभिचाराद् युक्तं यत् सम्यकशब्देन सर्वाणि दर्शनादीनि विशेषयति । चारित्रमिति, योऽयमितिशब्दः स इयत्तां दर्शयति, एतावन्त्येव मुक्तेर्मा! नातोऽन्योऽस्ति । एष इत्यनेन तु इतिना इयत्तावतस्वभावमन्तर्विपरिवर्तमानं स्वप्रत्यक्षं परस्मै वा सामान्येन प्रतिपादित परप्रत्यक्षं निर्दिशति । तिस्रो विधाः-प्रकारा अनन्तरप्रदर्शिता यस्य स त्रिविधः, कोऽसौ ?, उच्यते-सूत्रोपन्यस्तो मोक्षमार्ग इति । मोक्ष इति च ज्ञानावरणाद्यष्टविधकर्मक्षयलक्षण: केवलात्मस्वभावः कथ्यते स्वात्मावस्थानरूपो, न स्थानम्, यतो मोक्षस्य मार्गः, शुद्धिरुच्यते, न पुनर्धाम्नः शुद्धिर्विवक्षिता, या त्वसौ कर्मणां मुच्यमानावस्था तच्छोधनायैतानि प्रवर्तन्ते,
१ ज्ञानचारित्रयोरपि सम्यक्तयोपादानमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org