________________
तत्त्वार्थाधिगमसूत्रम् श्री उमास्वाति'वाचकवर्यविरचितं स्वोपज्ञभाष्यालङ्कृतम्
श्री सिद्धसेन 'गणिप्रणीतटीकायुतम् ।
प्रथमोऽध्यायः १ हितोपदेशे च कर्तव्ये निःश्रेयसावाप्त्युपायोपदेशान् नान्यः कश्चिद्धितोपदेश इत्युक्तम्सूत्रम्--सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥ १-१॥ टीका-इदमाद्यमनवयं मुक्तिपथोपदेशसूत्रं सकलतत्त्वार्थशास्त्राभिधेयमुररीकृत्य प्रावृतत्, द्वादशाङ्गप्रवचनार्थसनाहिसामायिकसूत्रवत् । यत इह हि शास्त्रे प्रसङ्गानुप्रसङ्गतस्त्रय एव पदार्थाः सम्यग्दर्शनादयो विमुक्तेः कारणत्वेन निरूप्यन्ते । अथ कस्मात् हेतव एव मोक्षस्य कथ्यन्ते ? न पुनः स एव प्रधानत्वादादौ प्रदीत इति । उच्यते-कारणायत्तजन्मत्वात् कार्याणां कारणमेवोपाददते प्राक् प्रेक्षापूर्वकारिणः । अथवा सत्यमसौ प्रधानः तथापि तु तत्र प्रायो वादिनां नास्ति विप्रतिपत्तिः । यद्यपि भावाभावादिरूपेणास्ति विगानं, तथाऽप्यस्ति तावन् मोक्ष इत्यनादृत्य भावादिरूपतां तद्धेतुषु प्रायो विसंवाद इति मन्यमानः परपरिकल्पितावाहेतूनेव मुक्तेः पश्यन् सम्यग्दर्शनादित्रयमेवोपन्यस्तवान् । अत्र चावधारणमवश्यं दृश्य, सम्यग्दर्शनादीन्येव मोक्षमार्ग इति । अनवधारणे हि सति अन्यस्यापि मुक्तिपथस्य सद्भावादनर्थकमेवोपदेशदानं स्यात्, तेनैव सिद्धत्वादिति । सम्यकशब्दश्च दर्शनशब्दसन्निधौ श्रूयते अतस्तेनैव सहास्याभिसम्बन्धो न ज्ञानचारित्राभ्यामिति कश्चिदाशङ्केत,अतस्तनिवारणायाह भाष्यकारः__ भाष्यम्-सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमित्येष त्रिविधो मोक्षमार्गः । तं पुरस्तालक्षणतो विधानतश्च विस्तरेणोपदेक्ष्यामः । शास्त्रानुपूर्वीविन्यासार्थ तूद्देशमात्रमिदमुच्यते । एतानि च समस्तानि मोक्षसाधनानि । एकतराभावेऽप्यसाधनानीत्यतस्त्रयाणां ग्रहणम् । एषां च पूर्वस्य लाभे भजनीयमुत्तरम् । उत्तरलाभे तु नियतः पूर्वलाभः । तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org