________________
२४ तत्त्वार्थाधिगमसूत्रम्
[ श्रीसिद्धसेनचने धर्मस्यैकस्यापि पदस्योपयोगः संसारनिर्वाहकः किमङ्ग पुनरेवंविधार्थविस्तारविषयस्येति, तस्मात् सङ्ख्पाद विस्तराञ्च जिनवचनं श्रेयस्करमिति । तदाह-" एकमपि तु जिनवचनाद्" इत्यादि यावत् "धार्य च वाच्यं च" (२७-२८) इति ॥ किञ्च जिनमतानभिज्ञस्य परस्येदं चोद्य-लोकानुग्रहासम्पादनाद्वयर्थ एकदेशसङ्ग्रह इति, कथं ?, संसारदुःखार्तसत्त्वाऽनुकम्पाद्रवीकृतात्मा परानुग्रहप्रवणो विधिप्रवृत्तोऽसपरोपकारोऽपि तत्प्रयोगशुद्धित एव स्वयं तावन्निःश्रेयसभाग् भवतीति नियमादसाकं यतिधर्मो देशनीयः सद्धर्म इति हेतोः । प्रोक्तं हि भगवद्भिः
"उठिएसु वा अणुठिएसु वा सुस्मुसमाणेसु पवेअएय अज्जवयं" इत्यादि यावत् "बुज्झमाणाणं जहा से दीवे असंदीणे एवं सरणं भवइ महामुणी"।
-आचाराङ्गे, श्रु० १ अ० ६ उ० प. तथा। "भवसयसहस्समहणो, विवोहओ भविय पुंडरीयाणं । धम्मो जिणपन्नत्तो, पकप्पजइणा कहेयव्वो" ॥-आर्या इति, तदाह-" न भवति धर्म" इत्यादि (२९-३१) ।
इति स्वोपज्ञसम्बन्धकारिकाः टीकाद्वयसमेताः समाप्ताः ॥
१ 'द्वयर्थ' इति ख-पाठः । २ उत्थितेषु (उपस्थितेषु) अनुपस्थितेषु प्रवेदयेत्--आर्जविताम् । ३ उह्यमानानां यथा स द्वीपः अस्यन्दनः एवं शरणं भवति महामुनिः । ४ भवशतसहस्रमथनो विबोधनो भव्यपुण्डरीकाणाम् ।
धर्मो जिनप्रज्ञप्तः *प्रकल्पयतिना कथयितव्यः ॥ * प्रकल्प:--आचारप्रकल्पः निशीथसूत्रमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org