________________
गणितटीका ]
सम्बन्धकारिकाः
२३
दरैः स एवातिशयादर्चनीयः ।। ६ ।। ( ३-६ ) स कः, अर्हन्निति सामान्योक्तं विशेषे व्यवस्थाप्यते यावत् "तस्मादर्हति पूजामर्हन्नेवोत्तमोत्तमो लोके" (७) इति ॥ स किमर्थं कृपाप्रसादयोरभावादर्थ्यनुग्रहाप्रवणः सर्वजगता सेव्यत इति चेत्, प्रक्षीणाशेषरागादिदोषवातस्य प्रसादद्रविणाभावेऽपि तत्सेवातो निःश्रेयसलाभस्य ध्रुवत्वात्, तदाह - "अभ्यर्चनादर्हतां " (८) इत्यादि । कृतकृत्यस्य प्रयोजनोद्देशाभावादप्रेक्षितकार्यचेष्टानाप्तत्वात् परानुग्रहप्रवृत्तिरेव तर्हि न स्यादिति चेत्, न, तीर्थकृन्नामकर्मानुभावाज्जगद्धितकारित्वशैल्युपपत्तेः, अनपेक्षितप्रयोजनभास्करप्रकाशनादिवदित्याह - " तीर्थप्रवर्तनफलं " ( ९ ) इत्यादि ॥ अथवाऽनुत्तरपारमर्षज्ञान बुद्ध । तिशयाद्यप्रमेयार्द्धनिःश्रेयसाभ्युदयार्थगमनमपेक्ष्य कृतार्थत्वविशेपणात् अवश्य वेद्यतीर्थकरनामकर्मवेदनाद्यायुष्कतन्तुबन्धादिक्षपण मात्र कार्यशेषापेक्षमकृतार्थतापि स्याद्वादिनो न दोषायेति ( १० ) ॥ अत्राह - संसारान्तर्वर्तिजनसामान्यात् तस्येयं कुतोऽनुत्तरगुणसम्पत्, कृतार्थत्वं वा ?, नहीष्टः सः स्वयम्भूरिति, उच्यते, अनुभाव विशेषजनिततारतम्यकुशलाकुशलप्रपञ्चैः कर्मभिरेवापादितप्रकर्षनिकर्ष भेदवैश्वरूप्यो जीवलोको दृष्टो, नहि कर्मणामलङ्घ्यमस्तीति, अतोऽनेकजन्मान्तराभ्यासात् तीर्थकृत्त्वाभिनिर्वर्तिकाभिः दर्शनतपोयोगाद्युत्तमविशुद्धाभिर्भावनाभिरुपचितस्फेातीकृतपरमप्रकृष्टपुण्यं सम्भारातिशयाद्दोपाणामत्यन्तव्यावृत्तेः अनर्घ्यगुणरत्नमहानिधीनां ( १ ) परमेश्वरत्वमुपपन्नं भगवत इत्याह"यः शुभकर्मासेवन" ( ११ ) इत्यादि यावत् " कृत्वा त्रिकरणशुद्धं तस्मै परमर्षये नमस्कारम् । पूज्यतमाय भगवते वीराय विलीनमोहाय " ( २१ ) इति ॥ अतोऽपरिमेयानुत्तरानन्तगुण स्वार्थसम्पद्युक्तः सद्धर्मतीर्थस्यास्य प्रणायको भगवान् जगत्परमेश्वरः प्रत्यासन्नोऽस्मत्परमबान्धवो महावीरोऽभिप्रणम्य इत्यस्यैव नमस्कारः इत्येवं नमस्कार भावमङ्गलपुरस्सरत्वं तत्त्वार्थाधिगमसङ्ग्रहस्याविष्कृतम् | शुद्धिश्च यथोक्तमौनीन्द्रप्रवचनानपेतत्वादिति (११-२१) ॥ इदानीं सङ्ग्रहविवक्षाप्रयोजनमाह - " वक्ष्यामि शिष्यहितमिमं " इति । कथं “बह्वर्थसङ्ग्रहं लघुग्रन्थं" (२२) इति वचनात्, कालानुभावादल्पसामर्थ्या भव्याः कथं नामाऽल्पीयसा वाक्प्रबन्धेन महतोऽर्थराशेरधिगन्तारः स्युरिति । स्यान्मतं किमयं कृत्स्नस्य प्रवचनस्य सङ्ग्रह उत तदेकदेशस्येति, एकदेशसङ्ग्रहोऽयमित्याह - "अर्हद्वचनैकदेशस्य" (२३) इति ऐदंयुगीनभव्यलोकानुग्रहमभिसन्धाय किमर्थं पुनः समस्तश्रुतसङ्ग्रहादर एव न कृत इति चेत् कृत्स्नश्रुतार्णवसङ्ग्रहकरणाशक्यत्वादर्थ्यमपि हि नैवाशक्यमारभ्यते इत्यशक्यताप्रतिपादनार्थमाह – “शिरसा ” ( २४-२६ ) इत्यादि । स्याद्बुद्धि - जिनवचनैकदेशसङ्ग्रहत्वात् शिष्यहितप्रतिज्ञा वितथा स्यात्, सर्वजगत्स्वभावनिर्णयात् हिताहितप्राप्तिपरिहारार्थिनामनुग्रहः स्यात्, सकलजगत्तत्त्वं च समस्तश्रुतौघप्रतिपाद्यमिति । उच्यते, नायं नियमः श्रुतार्णवस्य पारं गतवत एव श्रेयः प्राप्तिरिति, किन्त्वेतदपि दृष्टं प्रव
१ 'स्वातीकृत' इति क- पाठः । २ 'पुण्यपुण्य' इति क - पाठः । ३ 'स्यान्मन्ता' इति ख-ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org