________________
तत्त्वार्थाधिगमसूत्रम्
[ श्रीसिद्धसेनस तस्योपसर्जनमर्थोऽनभिसंहितानुषक्त इति । नैव चात्र नृसुरैश्वर्यसुखानुज्ञा, निःश्रेयसावाप्तिहेतुत्वेनानवद्यकर्माभ्यनुज्ञानात् पुनर्भवप्रबन्धकरं न भवति मोक्षकरमेव तु भवतीत्यनवयं हि कर्म तत्, सर्वत्र हि भगवता निर्निदानत्वमभिप्रशस्तम्, उक्तं हि "भुज्जो निदानकरणं मुक्खमग्गस्स पलिमंथू, सव्वत्थविणं भगवया अणिदाणदा पसत्था (दशाश्रुतस्कंधे)" इति। ततो यद्यप्याशु न लभते तथापि तत्सम्यग्दर्शनादिकृत एव स तस्य मोक्ष इति । इदानीं विचित्रप्रस्थानत्वादधमादिषट्पुरुषविशेषनिर्धारणेन मङ्गलपूर्वकत्वाच्छास्त्रप्रवृत्तेर्मङ्गलपूर्वकमिदं शास्त्रम्, तच्चात्रैकान्तिकादिफलयोगात् प्रकृष्टत्वाच्च नमस्कारो भावमङ्गलं प्रवचनसद्धर्मतीर्थप्रणायिने महावीरायेति भगवत एव पूज्यानुत्तरत्वप्रतिपादनार्थम्, तदनुषङ्गतः शास्त्रोपोद्घातार्थ प्रवक्तृशुद्धेः प्रवचने शुद्धिराख्याता स्यादिति भगवति जातप्रसादबहुमानो गुणज्ञः सङ्ग्रहकारः श्रोतृणां शास्त्रे गौरवोत्पादनार्थ चाह-“कर्माहितं." (४) इत्यादि । पुरुषार्थानां चतुर्णामुभयस्मिन्नपि लोके यो विपरीतानुष्ठायी अत्यन्तमुभयलोकगर्हितपरदारचौर्याद्यासेवमानः सोऽधमाधमः ॥ १॥ ऐहलौकिकसुखप्रार्थनापरः परलोकसुखविमुखः ऐहिकप्रत्यपायभयादत्यन्तनिन्द्यचौर्यपरदारादि परिहरन् विषयसुखासक्तः पुरुषोऽधम इत्यनुमीयते ॥२॥ स्वप्रस्थानात् य उभयलोकार्थ प्रयतते दानाध्ययनाद्यासेवमानः सत्कारलाभयशोमित्राद्यैहिकं फलं परलोकेऽपि नृसुरैश्वर्यप्राप्तिमभिकाङ्क्षन् स विमध्यमोऽनुमीयते ॥३॥ यः पुनरिहसुखनिरपेक्षोऽभिषेचनोपवासब्रह्मचर्यगुरुकुलवासभैह्याद्यासेवमानः परतीर्थिको लोकोत्तरमार्गप्रतिपन्नो वा देवेन्द्रचक्रवर्तिमहामाण्डलिकाद्यैश्वर्यसमाकृष्टमानसः सौभाग्यादि वा प्रार्थयमानो निदानपरस्तपोविक्रयेण परलोकसुखमेव प्रधानीकुर्वन् मध्यम इत्यनुमीयते ॥ ४ ॥ दृष्टानुनोविकेष्वर्थेषु शुद्धतिशयदर्शनादपरितुष्यन् संसारभयोद्वेगात् सर्वसङ्गत्यागो लोकद्वयनिःश्रेयससुखावह इति मत्वा न पुनर्विषयाभिष्वङ्गे मन आधेयमिति निःश्रेयसावाप्तिप्रधानः सर्वथा पुनर्भवप्रवन्धोच्छित्तये प्रयतितव्यम् इत्येवंपरानुष्ठानः “कर्मक्लेशाभावो यथा भवत्येष परमार्थः" (२) इति तत्प्राप्तियोग्यानि साधनानि सम्यग्दर्शनज्ञानचारित्राणि सर्वातिचारविशुद्धथा समाचरन् उत्तमोऽनुमीयते, ऐकान्तिकात्यन्तिकनिरतिशयानाबाधनिःश्रेयसफलप्रधानकृतार्थत्वप्रार्थनात् ॥ ५ ॥ यः पुनः प्रार्थनीयात्यन्तविशुद्धफलप्राप्तावत्यन्तकृतार्थोऽपि प्रार्थनीयफलाभावात् परनिमित्तोपकारफलनिरपेक्षः सत्त्वानामनुपयाचितनिष्कारणवत्सलः अत्यन्तहितपरः परोपदेशे वर्तते निसर्गत एव सोऽत्यन्तशुभतीर्थकरनामकर्मोदयप्रभावात् वक्तव्य एवोपदेश इति तीर्थकृत्त्वस्वाभाव्यात् प्रयतते, भास्करे प्रकाशनप्रवृत्तिवत्प्रकृष्टतमत्वात् सर्वलोकोत्तमः ततश्च पूज्यानामपि पूज्यतमत्वाद देवाधिदेव इत्यभिलषितार्थप्रेप्साकृता
१ 'मर्थानमि' इति क-पाठः। २ भूयो निदानकरणं मोक्षमार्गस्य परिमन्थः (विघ्नः),
सर्वत्रापि च भगवता अनिदानता प्रशंसिता ।
३ 'शास्त्रेप्याद्यान्तार्थ' इति क-ख-पाठः । ४ 'श्राविकेष्टार्थेषु' इति ग-पाठः । ५'शुद्धयन्न इति शुद्धयन्ना वा' इतिक-पाठः। ६ 'योग्यानि सम्यक्' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org