________________
गाणिकृतटीका ]
सम्बन्धकारिकाः प्रधानकार्यसिद्धिश्च, यथा इतोऽष्टयोजन्यामुज्जयिनी वर्तते तामेकेनाहा गच्छ परेण निवर्तेथाः यदि चैकेनाह्वा न प्राप्नुयास्ततोऽमुकस्मिन् ग्रामे सुखमुषित्वा श्वः प्रवेष्टांसि तूर्णं चागच्छेरित्येतस्माद् वाक्याद् गन्ता प्रश्वस्तः सन् न गमने विरसीभवति, पूर्वस्मात् तु व्याहन्यते, एवं नृसुरैश्वर्यर्द्धिनिरपेक्ष उपदेशोप्रश्वासाय स्यादिति, ततः प्रश्वासार्थमुच्यते " परमार्थालाभे वा" (३) इत्यादि । जन्मान्तरसञ्चितानां हि कर्मणां बन्धनिकाचनाद्यवस्थावैचित्र्यात् तदे॒तुकरागादिदोषाणां च कर्मावाहित्वताच्छील्यात् कश्चित् तद्भवेनैव निःश्रेयसं नाधिगच्छेत्, तथापि तस्य शुद्धप्रयोगहेतुकं कल्याणप्राप्तिकारणं पुण्यं कर्म स्यादिति । स्यान्मतम् , नन्वेवमभ्युदयाशंसा कृता स्यात् इष्टशरीरेन्द्रियादिनृसुरविशेषप्रादुर्भावफलत्वात् पुण्यस्य, निषिद्धाभ्युपगमे चाभ्युपेतबाधा स्यादिति । उच्यते, नैष दोषः । नृसुरैश्वर्यसुखप्रतिषेधात् । नृसुरैश्वर्यसुखप्रतिषेधपरं हि मुनेः कृत्स्नं वचनम् ॥ “सल्लं कार्मों" इत्यादि । स्वर्गलोकगमनसुकुलप्रत्यापत्त्यादिवचनं तु प्रधानार्थनिश्चयदाढापादनार्थम् । यथाऽनुच्छिबारिशेषोऽपि विजिगीषुर्भोगेषु न व्यासज्येतेति, तदुच्छेदाद भोगेषु व्यासङ्गोऽपि स्वनुबन्ध इति तत्प्राधान्यप्रतीतेरितरसुखस्याप्यसुखत्वमुपदिष्टं स्यात्, तन्मात्राभिष्वङ्गपरिहारार्थमित्थं, सर्वत्र प्रियहितनिश्चयसिद्धेः " सिद्धे वा भवति सासए, देवे वा अप्परए महिड्डिए" ॥
-दशवकालिके अ० ९, उ०४, गा० ७. " उँउप्पसन्ने विमलेव चंदिमा, सिद्धिं विमाणाणि वयंति ताइणो" ॥
--दश० अ० ६, उ० २, गा० ६८. " दुक्कराई करित्ताणं, दुस्सहाई सहित्तु य ।
केइत्थ देवलोएसु, केवि सिझंति नीरया" ॥ --दश० अ० ३, गा० १४. इत्यादि ॥ नृसुरैश्वर्यनिःश्रेयसविषयाणां सर्ववाक्यानां सिद्धिः । ततश्च नेदं यथोक्तप्रश्वासवाक्यतुल्यम्, न ह्यत्र कालाध्वपरिमाणगन्तृशक्तिवनिवृत्तिकालपरिच्छेद इति । यथा वा सर्वमुपक्लुप्तं भोजनविधानमुपचये ब्रूयात् किन्त्वपथ्यमिति । एवं च तत्प्रसङ्गप्रतिषेधो गम्यते तस्मात
१'प्रवेष्टास्मि' इति ग-टी-पाठः । २ 'स्यान्मन्ता' इति ख-ग-पाठः । ३ 'बाधी' इति क-पाठः । ४ सल्लं कामा विसं कामा कामा आसीविसोवमा ।
कामे पत्थयमाणा अकामा जति दुग्गतिं ॥ (उत्तराध्ययने अ० ९, गा० ५३.) [शल्यं कामा विषं कामाः कामा आशीविषोपमाः ।
कामान् प्रार्थयमाना अकामा यान्ति दुर्गतिम् ॥] ५ 'पदार्थोपदानार्थ इति ग-टी-पाठः । ६ सिद्धो वा भवति शाश्वतः देवो वा अल्परजाः (अल्परतः) महर्द्धिकः । ७ 'उप्पसन्ने' इति ख-पाठः ।
८ ऋतु ( शरत् ) ( काले ) प्रसन्नः विमलश्च चन्द्रमा इव तायिनः ( प्रसन्ना विमलाश्च ) विमानानि सिद्धिं (च) व्रजन्ति.
९ दुष्कराणि कृत्वा दुःसहानि सहित्वा च । केचिदत्र देवलोकेषु ( उत्पद्यन्ते ) केचित् सिध्यन्ति नीरजसः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org