________________
तत्त्वार्थाधिगमसूत्रम्
[श्रीसिद्धसेनत्यादनाबाधकम्, सर्वद्वन्द्वस्पर्शविषयातिक्रमाद् दुःखलेशाकलङ्कितं केवलम्, निष्प्रतिद्वन्द्वमिति निराबाधम्, आत्मतादात्म्याविर्भावान्मनोज्ञविषयसंसर्गायत्ता नोत्पत्तिरस्येति स्वाधीनमिति । तचैतच्चैतन्यवीर्यप्रशमादिगुणतत्त्वस्यात्मनः संसर्गप्रतिबन्धोपरागविगमात् पुनर्भवप्रबन्धोच्छेदात् दुःखानामत्यन्तनिवृत्तेः ज्ञानादिस्वतत्त्वावस्थाननिःश्रेयसावाप्रधिगम्यत इति तत्साधनशासनमुख्यप्रयोजनः कृत्स्न उपदेशः परमर्षेः, तदनुषङ्गतः शेषव्याख्यानात्, अतश्च मुख्यपुरुषार्थसाधनसाध्याव्यभिचारशासनाच्छास्त्रमेतत्, विषयर्द्धिसंयोगसमुत्थस्य तु सुखस्यात्यन्तिकादिविपरीतविशेषणानुगतत्वात् दुःखोत्तरत्वात् दुःखप्रतिकारमात्रत्वाच्च, तदर्थ शास्त्रमशास्त्रं स्यात्, तदुपायोपदेशविधिमन्तरेणापि तत्सिद्धथुपपत्तेश्चेति, अभ्युदयप्राप्त्युत्सवफलो धर्मः प्रतिषेध्यपक्षक्षिप्तः प्रतिमन्तव्यः, अर्थकामौ च, यस्माच्चैते दुःखाभावार्थिनां नात्यन्ताभावहेतवः तस्मादभ्युदयफलधर्मार्थकामोपदेशो न हितोपदेश इति सर्वेणापि तदर्थः प्रयासो नास्थेय इत्यर्थः । सर्वस्यास्य विषयसुखर्द्धिफलत्वात् तद्दोषदुष्टत्वादिति, परमर्षेःप्रवक्तुनिसर्गादेव लोकानुग्रहकारितायां प्राणिनां च हिताहितविभागोपदेशविशिष्टानुग्रहहेत्वभावानिःश्रेयसावाप्तिहेतूपदेशप्रवृत्त्युपपत्तेः, सदाचायेयुक्तितो हिताहितप्राप्तिपरिहारार्थिनां च कामादिषु दोषदर्शनानिःश्रेयसार्थित्वानिःश्रेयसमार्गोपदेशः शास्त्रे प्रवर्तते इत्ययं शास्त्रप्रवृत्तिहेतुकृतः शास्त्रसम्बन्धः । स चायं भाष्यकारिकाभिः प्रकाश्यते-पुरुषार्थसिद्धिं प्रत्यागूर्णानां हिताहितप्राप्तिपरिहारार्थिनां विधेयप्रतिषेध्यविवेकप्रदर्शनार्थ हि कारिकाद्वयमाद्यम् । परमकार्यमभीप्सद्भिः प्रधानपुरुषार्थप्राप्तिकाङ्किभिः परहितप्रेप्सुभिर्निःश्रेयसार्थिभिरित्यर्थः । परमनिवृतेरठ्यत्वात् तत्सिद्धियोग्यताप्रतिघसामर्थ्यादेवंप्रकारसाधनगुणसमौर्भाव्यम्, अर्थापास्ततद्विपरीतार्थतत्साधनपरिहारिभिश्चेति अतो विधेयोऽर्थः । कर्मक्लेशानामत्यन्ताभावादनवरताप्रतिपाति मुक्तिसुखं, सम्यग्दर्शनादीनि तत्साधनानि च, अर्थाद व्युदसनीयः संसारसुखाभिलाषः तरसुखसाधनानि च, तस्मान्निःश्रेयसावाप्तये यतितव्यम्, तत्सिद्धिसमर्थ च साधनमारोग्यस्येव चिकित्सा सम्यक्श्रद्धानज्ञानसंवरतपांसीति, नृसुरैश्वर्यसुखतत्साधनार्थ च न यतितव्यमिति । यतश्चैवं सम्यग्दर्शनज्ञानतपोगुणसामग्रीयोगयुक्तस्य द्रव्यक्षेत्रकालभावप्रभेदसंसारमहादुःखप्रपञ्चापातमहाभयहेतूनां कात्स्न्येन प्रक्षयादात्यन्तिकी दुःखनिवृत्तिनिष्प्रतिद्वन्द्वाप्रतिपातिपरमसुखलाभश्चोपपद्यते, तस्मादुक्तं "तेन सुलब्धं भवति जन्म" (१) इति । कर्मक्लेशा इति च, दुःखानां नैमित्तिकत्वाद् भवेन्निवृत्तिरिति, अनपेक्षपरिणामत्वात् स्वभावत्वे हि नापव्रज्येरन् क्लेशाः, प्राक्तनं तु कर्मक्लेशविशेषणं, न प्रधानेश्वरादिकृताः कर्मक्लेशा इति । एवं क्रियान्तरप्रसिद्धिप्रवृत्तिः क्रियान्तरप्रसिद्धिनिवृत्तिश्च कृता, तस्मादित्थमुक्तं भगवता, “ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" ( १, १ ) इति ( १, २ )। नन्वेवमप्रश्वासः कश्चित्, इह हि सम्यग्दर्शनादियुक्तो मुमुक्षुस्तदर्थ सम्यगीहमानोऽपि निःश्रेयसमनवाप्योपरमेत स इदानीं नृसुरसुखप्रतिषेधाद् विफलप्रयासः स्यात् , दृश्यते हि प्रश्वासः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org