SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सूरिकृतीका ] सम्बन्धकारिकाः १९ लिखिताः तासु न श्रमोऽभिशङ्कयः, प्रसङ्गभयात् प्रायो निगदोक्तार्थत्वाच्च न विमर्दः । अतः परं शास्त्रं भवतीति ॥ ३१ ॥ aari कारिकाटीका, शास्त्रटीकां चिकीर्षुणा । सन्दृब्धा देवगुप्तेन, प्रीतिधर्मार्थिना सता || अनुष्टुप् श्रीवर्द्धमानस्वामिने नमः । अथ श्रीसिद्धसेन ग णिप्रणीता द्वितीया टीका प्रारभ्यते । अवतरणम् जैनेन्द्रशासनसमुद्रमनन्तरत्न - मालोड्य भव्यजनतोषविधायि येन । रत्नत्रयं गुरुसमुद्धृतमिद्धबुद्धया, तत्त्वार्थसङ्ग्रहकृते प्रणमामि तस्मै ॥ १ ॥ वसन्ततिलकां स एव धीपो विधुरां धियं मे, नयप्रमाणादिविचारनीतौ । पहुं विधत्तां व्यसनावमग्ने, कुर्वन्ति सन्तः करुणामवश्यम् ॥ २ ॥ उपजतिः सङ्क्षिप्तविस्तीर्णरुचिप्रबोधैः, पूर्वैर्मुनीशैर्विवृतेऽपि शास्त्रे । यातुं पथा वाञ्छति मध्यमेन, बुद्धिर्मदीया परिपेलवापि ॥ ३ ॥ इन्द्रवज्रा : उक्तं जिनेन्द्रैर्जगदेकनाथैः, सर्व नयद्वैतमतानुसारि । ज्ञेयस्वरूपं प्रविभज्य सम्यक्, संयोजनं केवलमेव चिन्त्यम् ॥ ४ ॥” विमुक्तिमार्गे मुनिनाथदेशिते, व्यधायि मौढ्याद् यदसाम्प्रतं मया । तितिक्षतां तत् सुजनः समाधिना, विलोक्य रन्ध्रेषितया विना कृतः ॥ ५ ॥ उपेन्द्रवज्रा मोक्षमार्गोपदेशः श्रेयान् परिनिर्वाणस्य पुरुषार्थप्राधान्यात्, दुःखोद्वेगाद्धि जीवलोकः सुखप्रेप्सया च क्लेशार्तिहेतून परिजिहीर्षन् सुखानन्दनिमित्तोपादित्सया च सर्वक्रियासु प्रवर्तते । सुखदुःखप्राप्त्यभावश्च लोके तन्त्रान्तरेषु च सन्निकृष्टकारणभावोऽभीप्स्यते धर्मस्यार्थ कामयोश्च । सुखं हि द्विविधं वैषयिकभेदान्निर्वाणप्राप्तिलब्धात्मस्थसुखभेदाच्च, तत्र यन्मोक्षं सुखं तदात्यन्तिकमैकान्तिकमनतिशयमनाबाधकं केवलं निराबाधं स्वाधीनं च शश्वदप्रतिपातादात्यन्तिकं, व्यतिकीर्णसुखदुःखहेतुभावार्थान्तरानपेक्षत्वादैकान्तिकम् प्रकर्षकाष्ठावस्थानादनुत्तरत्वाद्नतिशयम्, प्राण्युपमर्दनजलौकिक सौख्यवैपरी १ वसन्ततिलका -लक्षणम् - " उक्ता वसन्ततिलका तभजा जगौ गः"। २ 'धीरो विकलां' इति क-पाठः । ३ उपजाति-लक्षणम् - " स्यादिन्द्रवज्रा यदि तौ जगौ गः, उपेन्द्रवज्रा जतजास्ततो गौ । अनन्तरोदीरितलक्ष्मभाजी, पादौ यदीयावुपजातग्रस्ताः "} ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy