________________
२७
सूत्रं १]
स्वोपज्ञमाष्य टीकालङ्कृतम् अथवेषत्प्राग्भारधरणी मोक्षशब्देनाभिधातुमिष्टा, यस्मात् तदुपलक्षितोपरियोजनक्रो
शषड्भागो भगवतामाकाशदेशः प्रादेशि दिव्यदृश्वभिराधारः, तस्यायं सूत्रोपन्यासफलम् मार्ग:-पन्थाः, समस्तप्रत्यपायवियुतः पाटलिपुत्रगामिमार्गवन्मोक्ष
मागे इत्यस्य एष त्रिविध इत्येतद्विवरणम् , एवं सामान्येन सूत्रप्रकाशः प्रत्यपादि ॥ अधुना परः प्रश्नयति-किमेतावदेव मोक्षमार्गोपदेशनमुत विस्तरेणाप्यस्ति किश्चिदिति ? अस्तीत्याह। यद्यस्ति किमिति नोच्यते ? आह—तं पुरस्ताल्लक्षणतो विधानतश्च इत्यादि । तमिति मोक्षमार्गमनन्तरश्रुतं निर्दिशति, पुरस्तादिति अस्मात् सूत्रादुपरितनसूत्रेषु, लक्षणत इति, लक्ष्यतेऽनेनेति लक्षणं, तद् द्विधा आन्तरबहिर्भेदेन, रुचिपरिच्छेदानुष्ठानाख्याः पौरुषेय्यः शक्तयो जीवस्य याः समासाद्य व्यपदिश्यते सम्यग्दर्शनीत्याद्यान्तरम् । बाह्यं तु तत्प्ररूपणप्रवणसूत्रशब्दराशिः अन्तर्लक्षणोपकारितया प्रवर्तमानः “तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् (१-२)" इत्यादि । विधानत इति भेदतः। ननु च सर्वद्रव्यभावविषया रुचिरेकैव कुतस्तस्याः प्रभेदसम्भवः । उच्यते-सत्यमेका रुचिः, सा तु निमित्तभेदाद भेदमश्नुते, क्षयक्षयोपशमोपशमलक्षणं सास्वादनवेदकलक्षणं च । तथा चैवोत्पत्तिकारणवशादेकरूपाया अप्युपरिष्टाद् भेदो निदर्शयिष्यते । यतः कस्याश्चित् स्वभाव एव निमित्तम् उत्पद्यमानायाः, कस्याश्चिञ्चोपदेशो निमित्तम्, इत्यमुं च पाश्चात्यभेदमाश्रित्य भेदद्वयं विधानतो वक्ष्यति । चकारः समुच्चये । विस्तरेण इति सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमित्येष त्रिविधो मोक्षमार्ग इत्यमुं समासव्याख्याभेदमङ्गीकृत्य इहैव सूत्रे वक्ष्यमाणं, तत्र सम्यगिति प्रशंसार्थो निपात इत्यादिकं सङ्केपमाश्रित्य वक्ष्यमाणो विस्तीर्णोऽभिमतस्तत्त्वार्थश्रद्धानं सम्यग्दर्शनं इत्यादिरतो विस्तरेणेत्याह । उपदेक्ष्याम इति भणिष्यामः स्वपरानुग्रहार्थम् । यदि तं हि लक्षणविधानाभ्यामुत्तरत्रोपदेक्ष्यसि ततस्तमेव ब्रूहि किमनेनाद्यसूत्रोपन्यासेन सङ्केपार्थाभिधायिनाऽनर्थकेनेति चोदितः प्रत्याह-शास्त्रानुपूर्वीविन्यासार्थमित्यादि । मुख्यपुरुषार्थसाधनसाध्याव्यभिचारशासनात् शास्त्रमिष्टं प्रमाणप्रमेयसिद्धिनिरूपणं च, तस्यानुपूर्वी क्रमः-परिपाटी, तस्या विन्यासो रचना,तत्प्रयोजनार्थम्,तशब्दालाभक्रमप्रदर्शनार्थं च । शुश्रूषणांचादरप्रतिपादनार्थमिदमुच्यते। अविशिष्टपदार्थाभिधानं उद्देशः, तन्मात्रमिदं सम्यग्दर्शनादिसूत्रमभिधीयते सङ्ग्रहप्रतिज्ञानात्, एतत् कथयत्यादौ सम्यग्दर्शनं लक्षणविधानाभ्यां निर्धारयिष्यामि,ततो ज्ञान, ततश्चारित्रमित्येषा वक्ष्यमाणरचनेति प्रतिपद्यस्व । अयं च लाभक्रमः सम्यग्दर्शनादीनां, पूर्व सम्यग्दर्शनज्ञाने, ततश्चारित्रमुत्पत्ताविति । शिष्याणां चात्र ग्रहणादिषु प्रवर्तमानानां न शक्यं वचनमन्तरेणादराधानमित्यतः सकलशास्त्रसङ्ग्राहीदमादावुच्यते सूत्रम् । आह परः, उच्यतां नाम तथा, किं तूच्यमानेऽस्मिन्नन्वेवं भवितव्यम्-सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गा इति, अभिधानस्याप्यभिधेयमाश्रित्य वचनं प्रवर्तते, मोक्षमार्गशब्दस्य सम्यग्दर्शनादीन्यभिधेयानि तेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org