________________
१६
तार्थाधिगमसूत्रम्
[ श्रीदेवगुप्त
ष्टताप्रसङ्गः स्यात् । न चेयं स्वमनीषिका । उक्तं हि प्रवचने, इत्येतद् द्वादशाङ्गं गणिपिटक न कदाचिन्नासीन कदाचिन्न भवति न कदाचिन्न भविष्यति बभूव भवति भविष्यति चेति । विलीनमोहाय ध्वस्त संसारबीजायेत्यर्थः ॥ २१ ॥ कृत्त्वोत्तरकालं किमाह
व्या०- - तत्त्वार्थेत्यादि । तत्त्वार्थोऽधिगम्यतेऽनेनास्मिन् वेति तत्त्वार्थाधिगमः इयमेवास्य गौण्याख्या नामेति तत्त्वार्थाधिगमाख्यस्तं, बह्वर्थं स च बह्वर्थः बहुर्विपुलोऽर्थोऽस्येति बहर्थः सप्तपदार्थनिर्णय एतावांश्च ज्ञेयविषयः । सङ्ग्रहं समासं, लघुग्रन्थं श्लोकशतद्वयमात्र, वक्ष्यामीति वचोरूपं, अन्यथा हि ब्रूतेः क्रियाफललक्षणमात्मनेपदं स्यात् । शिष्यहितमल्पग्रन्थं
लसा अप्यधीयन्ते, अधुना हि कालपरिहाणेरलसत्वात् सत्त्वानामशक्यः सकलप्रवचनाधि - गमस्तदनधिगमे च दीर्घः संसारः तस्मादिममल्पग्रन्थं सङ्ग्रहमधीत्य बीजमात्रमपि तावल्लभन्तां शिष्या इत्यतः शिष्यहितं वक्ष्यामीति अभिप्रायः इममिति, अनन्तरमेव वक्ष्यामीति । कस्य सङ्ग्रहमित्याह - अर्हद्वचनैकदेशस्य, अर्हतामहद्भयो वा वचनं द्वादशाङ्गं गणिपिटकं तस्याप्येकदेशस्य सङ्ग्रहं वक्ष्यामि न सर्वस्य महत्त्वादित्यर्थः ॥ २२ ॥ एवं तीर्थ महिमाक्षिप्तबुद्धिराचार्यशक्तिमसम्भावयन्नाचार्यदेशीयः प्राहमहतोऽतिमहाविषय-स्य दुर्गमग्रन्थभाष्यपारस्य ।
कः शक्तः प्रत्यासं-जिनवचनमहोदधेः कर्तुम् || २३ || आर्या व्या०- - महत इत्यादि । अयं महच्छब्दोऽस्ति प्रायः प्रांशुत्वे महावृक्षः, अस्ति वैपुल्ये महोदधिः, अस्ति पूजने महापुरुषः, अस्ति भूयस्त्वे महौजा आदित्यः, 'महत्' शब्दस्या- अस्ति प्राधान्ये महादेवः, अस्ति संज्ञायां महाजनः, अस्ति प्रशस्ये महोदयो भूयाः, इह तु भूयस्त्वे, बहुग्रन्थविषयस्येति, प्राधान्य पूजितत्वे तूक्ते, एवं वैपुल्यमपि महोदधेरेव वक्ष्यति । दुर्गम ग्रन्थभाष्यपारस्य, दुर्गमो ग्रन्थभान्ययोः पारो निष्ठाऽस्येति दुर्गमग्रन्थभाष्यपारः । तत्रानुपूर्व्या पदवाक्यसन्निवेशो ग्रन्थः, तस्य महत्त्वादध्ययनमात्रेणापि दुर्गमः पारः, तस्यैवार्थविवरणं भाष्यं, तस्यापि नयवादानुगमत्वादलब्धपारः, अयं ह्यागमः सर्वशक्त्यन्वितेन महतापि पुरुषेण सकलप्रवचनार्थः अशक्यो व्यावर्णयितुमिति । तदित्थमस्य कः शक्त इत्यादि, अयं किंशब्दोऽस्ति क्षेपे किंसखा विविधार्थीः योऽभिद्रुह्यति, अस्ति प्रश्ने किं ते प्रियं, अस्ति निवारणे किं ते रुदितेन, अस्त्यपलापे किं तेऽहं धारयामि, अस्त्यनुनये किं तेऽहं करोमि, अस्त्यवज्ञाने कस्त्वामुल्लापयते, इह त्वपलापे, नास्त्यसौ योऽस्य जिनवचनमहोदधेः प्रत्यासं कर्तुं समर्थ इत्यभिप्रायः ॥ २३ ॥
यश्चैतत्प्रधारयेद्साविदमप्यध्यवस्येदित्याह --
शिरसा गिरिं विभत्से- दुचिप्सेच्च स क्षितिं दोर्भ्याम् । प्रतितीर्षेच समुद्र, मित्सेच्च पुनः कुशाग्रेण ॥ २४ ॥ आर्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org