________________
सूरिकृतटीका ]
सम्बन्धकारिकाः व्योम्नीन् चिक्रमिषेन, मेरुगिरि पाणिना चिकम्पयिषेत् ।
गत्याऽनिलं जिगीषे-चरमसमुद्र पिपासेच ॥ २५ ॥ आर्या किञ्च,
खद्योतकप्रभाभिः, सोभिबुभूषेच्च भास्करं मोहात् । योतिमहाग्रन्थार्थं, जिनवचनं संजिघृक्षेत॥२६॥”—विशेषकम्
व्या०—शिरसेत्यादि । भेतुमिच्छेत्, उचिक्षिप्सेच्च स क्षितिं दोभ्या, तमेव गिरि सह क्षित्योत्क्षेप्तुमिच्छेत, दो बाहुभ्यां, प्रतितीपेच समुद्रम् तरीतुमिच्छेत, दोर्ष्यामिति वर्तते, मित्सेच्च पुनः कुशाग्रेण, तमेव समुद्रमुदबिन्दुपरिमाणाधिगमाय कुशाग्रेण मातुमिच्छेत् ॥२४॥ _ व्या०-खद्योतकेत्यादि । खद्योतकैर्भास्करमभिभवामीति भास्करोऽहमित्येवमिच्छेत्, मोहात् मूढो निरर्थकमुन्मत्तोऽनात्मज्ञः, मोहादिति च गिरिभेदादिषु सर्वत्र सम्बध्यते, योऽतीत्यादि, अतिमहाग्रन्थार्थं जिनवचनं यः संग्रहीतुमिच्छति स इदं प्रक्रान्तं सर्वमध्यवस्येदित्यर्थः ॥२६॥
एवं चोदित आचार्यः सर्वमेतदेवमित्यनुज्ञापवादमाहएकमपि तु जिनवचनाद्, यस्मान निर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः, सामायिकमात्रपदसिद्धाः॥ २७ ॥ आर्या
व्या०–एकमपीत्यादि। एकमपि पदं, किं पुनरियान् सप्तपदार्थसंग्रह इति तुशब्दो विशेषयति, जिनवचनादित्यवच्छेदे पञ्चमी, यथा समूहाच्छुक्लं प्रकाशते । यसादिति कारणे पञ्चमी । यस्मात् कारणानिर्वाहकं सुगृहीतमप्यभ्यस्यमानमुत्तरोत्तरज्ञानकारणत्वाद् भवोत्तारकमित्यर्थः। न चेयं स्वमनीषिका इत्याह, श्रूयन्ते इत्यादि, श्रूयन्ते चानन्ता इति चशब्दः समुच्चये, बीजलाभात् तदविनाशादुत्तरोत्तरवृद्धिसम्भवोऽवसीयते । श्रूयन्ते चेत्यभिप्रायमात्राऽवधारणे, एवं श्रूयन्ते प्रवचने-'करोमि भदन्त ! सामायिकमित्येतावतैव पदेन भावतः सुगृहीतेनानन्तकालेन अनन्ताः सिद्धा' इत्युक्तं प्रवचने, उदाहरणमात्रं तुषमाषैः स्वाध्याय इति ॥२७॥
यसाच्चैवमागमो निर्वाहकमिति चावसीयतेतस्मात् तत्प्रामाण्यात्, समासतो व्यासतश्च जिनवचनम् ।
श्रेय इति निर्विचारं, प्राचं घार्यं च वाच्यं च ॥ २८ ॥ आर्या व्या०-तस्मादित्यादि । तस्मादागमप्रामाण्यात् , समासतः संक्षेपेण, व्यासतो विस्तरेण, यथाशक्त्याऽध्येयं जिनवचनं, न पुनरवमन्तव्यमिति दर्शयति, श्रेय इति, इदमेव हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org