SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सूरिकृतटीका ] सम्बन्धकारिकाः एव तरन्त्यनेन तद्वाधिगम्येति तीर्थमित्युक्तं, अन्येऽपि पृथिवीकायिकादयः सत्त्वाः संसारस्य लोकस्य कर्मप्रेरिताः पारं गच्छन्तीति ज्ञापनार्थ दुःखक्षयायालमिति विशेषितम् ॥ १९ ॥ किमस्य माहात्म्यमित्याहग्रन्थार्थवचनपटुभिः, प्रयत्नवद्भिरपि वादिभिर्निपुणैः। अनभिभवनीयमन्यै-र्भास्कर इव सर्वतेजोभिः ॥ २० ॥ आर्या व्या०-ग्रन्थार्थेत्यादि । प्रत्येकं पटुशब्दः, सन्ति हि केचित् यथाऽधीतग्रन्थपटवो _नार्थपटवः, केचिच्चानधीतग्रन्था अप्यर्थपटवः, केचिदप्यनधिगतग्रन्थार्था 'पटु'शब्दस्यार्थनानात्वम् थ-अपि स्वविकल्पितवचनपटव इत्यतो विशेषयति त्रिष्वपि ये पटवः । एवं विधा अपि केचिदुदासीना भवन्तीत्याह । प्रयत्नवद्भिरपि विजगीषोद्यतैः, वादिभिर्निपुणैः न्यायकुशलैः, अनभिभवनीयमन्यैरधृष्यमन्यैर्वादिभिरन्यैस्तीथिकैः । किमिक, भास्कर इव सर्वतेजोभिः । भास्कर इव मणिप्रदीपादिभिः सर्वतेजोभिरनभिभवनीयः इदं तीर्थ देशयामास ॥ २० ॥ किमर्थं पुनरयमुपन्यास इत्याहकृत्वा त्रिकरणशुद्धं, तस्मै परमर्षये नमस्कारम् । पूज्यतमाय भगवते, वीराय विलीनमोहाय ॥ २१ ॥ आर्या तत्त्वार्थाधिगमाख्यं, बह्वर्थं सङ्ग्रहं लघुग्रन्थम् । वक्ष्यामि शिष्यहितमिम-मर्हद्वचनैकदेशस्य ॥ २२ ॥"-युग्मम् व्या०-कृत्वेत्यादि । कायवाङ्मनांसि त्रीणि करणानि, तैः शुद्ध अकलङ्क, शुद्धानि वा त्रीणि करणान्यस्मिन्निति त्रिकरणशुद्धम् । शारङ्गजग्धादिज्ञापकात् तु निष्ठापरनिपातः। तस्मै इति यः शुभकर्मासेवन इत्युक्तं सम्बध्यते परमषेये नमस्कारं कृत्वेति वर्तते, पूज्येत्यादि, पूज्यतमाय भगवते, गतमभिदेवादिभ्योऽपि नमस्कारमर्हति किमुत मत्त इति सारयति । भजनं भजन्ते वा तमिति भगः श्रीरित्यर्थः, सा च सर्वातिशयमयी वर्णिता वक्ष्यति च, सोऽस्यास्तीति भगवान् तस्मै भगवते । वीराय विलीनमोहाय, गतमप्याचार्यः परमभक्त्याविर्भावितचेताः पुनः पुनः कण्ठोक्तं नाम करोति, अथवा स्वयमेव बुद्धतत्त्व इत्यतःप्रभृति सामान्यतीर्थकरलक्षणसद्भावात् तद्वचनसञ्जिघृक्षुर्विशिष्य वीरायेत्याह । न च मन्तव्यमिदमिति वर्तमानतीर्थप्रणेतृत्वाद्विशेषितमिति, तदपि हि सामान्यार्थमेवातीता अपि इदमेव द्वादशाङ्गं देशयामासुः तथा अनागता देशयिष्यन्ति अवस्थितत्वादर्थानां अन्यथा केवलज्ञानहीनोत्कृ१ युग्मस्य लक्षणम् "द्वाभ्यां युग्ममिति प्रोक्तं, त्रिभिः श्लोकैर्विशेषकम् । . कलापकं चतुर्भिः स्यात्, तदूर्व कुलकं स्मृतम् ॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy