________________
तत्त्वार्थाधिगमसूत्रम्
[श्रीदेवगुप्तवर्ज, एते ह्यतिचारवशेन भवतः, निरतिचारश्चायं शेषत्रयं त्ववस्थाविशेषवशेन सम्भवेत् । संवरो निरुद्धसर्वाश्रवत्वात् कृत्स्नः । तपो बाह्यं षड्विधमपि, अन्तस्तपसस्तु विनयव्युत्सर्गे यथासम्भवम् । ध्यानं तु प्रधानकर्मक्षयकारणत्वात् समाधिरिति कण्ठोक्तमेव । अनेन बलेन युक्तः। मोहादीत्यादि, मोहज्ञानदर्शनावरणान्तरायानिहत्य प्रक्षपय्य, अशुभानि, गतार्थत्वेऽप्यशुभग्रहणमन्यकर्मभ्योऽशुभतरतमख्यापनार्थ, चत्वारि कमोणीतिव्युत्क्रान्त्यानुप्रा केवलोत्पत्तिसूत्रसम्बन्धसङ्ख्याख्याज्ञापनार्थमुक्तम्, ते हि चत्वारोऽपि संसारदुःखप्रतिभयप्रदाः शत्रवः ॥१७॥
किं फलमित्याहकेवलमधिगम्य विभुः, स्वयमेव ज्ञानदर्शनमनन्तम् । लोकहिताय कृतार्थों-ऽपि देशयामास तीर्थमिदम् ॥ १८ ॥ आर्या
व्या०-केवलमित्यादि । केवलममिश्रमसाधारणमधिगम्य प्राप्य, विभवीति विभुः सर्वगतज्ञानात्मेत्यर्थः । स्वयमेव स्वशक्त्यैव, न राजेव सामन्तादिमिश्रः। किं तत्, केवलं ज्ञानं दर्शनं च वक्ष्यमाणम् , अनन्तं न कचित्प्रतिहतं सर्वत्रगमत एव विभुरित्युक्तम् । अधिगम्य किं कृतमित्याह-लोकहितायेत्यादि, सर्वमेतद्गतार्थम्, इदमिति यदेवेदमधुना प्रवर्तते ॥१८॥
कियत् पुनस्तदित्याहद्विविधमनेकद्वादश-विधमहाविषयममितगमयुक्तम् ।
संसारार्णवपारग-मनाय दुःखक्षयायालम् ॥ १९ ॥ आयो
व्या०-द्विविधमित्यादि । वक्ष्यमाणमेतन्महाविषयं सर्वद्रव्याण्यसर्वपर्यायाणि त्रैकाल्यमस्येति । अमितगमयुक्तं, गमाः पन्थानो नयाः वक्ष्यमाणास्तैरसङ्ख्येयैर्युक्तमभिसन्ततम् । कियद्गुणमित्याह-संसारेत्यादि, संमृतिः संसारः, संसरणं वा संसारः, स नामादिश्चतुर्विधो वक्ष्यते, स एव अर्णवः संसारार्णवः । कथं चासावर्णवः, नरकतिर्यग्मनुष्यामरगतिचतुष्टयदुस्तरविपुलपात्रः । प्रियाप्रियविरहसम्प्रयोगक्षुदभिघातादिसन्निपातप्रतिभयानेकदुःखागाधसलिलः परोपघातिक्रूरानार्यजनानेकमकरविचरितविषमः मोहमहानिलप्रेरणाध्मायमानगम्भीरभीषणप्रमादपातालः नरकादिविकृतभीमवडवामुखग्रस्यमानानेकपापकर्मसत्त्वः रागद्वेषप्रबलानिलोद्धतसंजायमानवीचीप्रसृताशयवेलः तदेवमस्य भगवन्तो यतयो द्वादशाङ्गविपुलशरीरं सम्यग्दर्शनायोपबद्धसन्धिः प्राणिदयादिव्रतसम्पन्नकनिरुद्धाश्रवद्वारं सन्तोपमितस्वादकाद्युपहितपावनं विशुद्धज्ञानसन्निहितनिर्यामकं सकलचारित्रविधानानुकूलपवनप्रेरितं विशुद्धध्यानबलोपहितसर्वमङ्गलरक्षं प्रवचनयानपात्रमारुह्य संसारार्णवस्य पारप्राप्तिफलं शिवमक्षयमनामयं मोक्षमवाप्नुवन्तीत्येवमेतत् अलं पर्याप्त संसारार्णवपारगमनायेत्युच्यते. अत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org