________________
सूरिकृतटीका ]
सम्बन्धकारिकाः रमणीयम् । चतस्रोऽपि हि नरकतिर्यङ्मनुष्यदेवगतयो दाहक्षुदामयाभियोग्यादिदुःखमय्यः, काऽत्र सारवत्तेति अभिसमीक्ष्य किं कृतमित्याह-स्फीतमित्यादि, स्फीतं समृद्धमकण्टकं, अपहाय त्यक्त्वा, राज्यं जनपदं, शमाय धीमान् प्रवत्राज, शमाय मोक्षाय, न परलोकार्थे, उक्तमस्य निरनुबन्धं कर्मेति । धीमानिति, निष्क्रमणानन्तरमेवास्य चतुर्थ मनःपर्यायज्ञानमाविबभूव, अन्यथा तूक्तमेव धीमत्त्वं, न चेयं स्वमनीषा । उक्तं हि प्रवचने-चारित्रप्रतिपत्त्यनन्तरमेव प्राक्केवलोत्पत्तेश्चतुर्तानिनस्तीर्थकराः प्रवव्रजुः ॥१५॥
अतः प्रव्रज्याबहुत्वे कतरामभ्युपेतवान् इत्याहप्रतिपद्याशुभशमनं, निःश्रेयससाधनं श्रमणलिङ्गम् । कृतसामायिककर्मा, व्रतानि विधिना समारोप्य ॥ १६ ॥ आर्या
व्या०-प्रतिपद्येत्यादि। प्रतिपद्य गृहीत्वा, अशुभकर्मक्षपणोपायभूतं अशुभशमनं, न च पुण्योपादानमन्यभवानाका क्षत्वात्, अतो निःश्रेयससाधकं मोक्षप्रापकं, किं तत्, श्रमणलिङ्ग श्रमणचिह्न प्रायः श्रमणत्वगमकं, तच्च स्वकरपञ्चमुष्टयवतारितनिःशेषकेशं अष्टादशशीलाङ्गसहस्रानुष्ठानाभ्युपगतप्रतिज्ञममरोपहितसितैकदुकूलकृतवैकल्यं अत्यन्तसर्वसत्त्वानुद्वेजैनमसङ्गपदप्रापकं प्रतिपद्य । अन्येष्वपि च श्रमणलिङ्गोपचाराद्विशेषमार्ययैवाह-कृतसामायिककर्मा कृतं सामायिक कर्मानेन कृतसामायिककर्मा, करोमि भदन्त ! सामायिकं सर्वान् सावधान् योगान् प्रत्याचक्षे इत्येवं, न चास्यान्यो भदन्तोऽन्यत्र सिद्धेभ्यः आचारार्थ त्वनेन
. सिद्धान् वा प्रयुक्तम् । व्रतानि विधिना समारोप्य । अयं व्रतशब्दोऽस्ति 'व्रत शब्दस्यार्थ- भोजने पयोव्रत इति, अस्ति निवृत्तौ वृषलानं व्रतयति, अस्त्याचारे इदं - वैविध्यम् ।
वः कुलवतम्, अस्ति प्रतिज्ञायां स्थण्डिलशायिव्रतो यतिः, इह तु निवत्तिप्रतिज्ञयोः, हिंसादिनिवृत्तिमातापनादिप्रतिज्ञां चाभ्युपगम्य, तानि व्रतान्यहिंसादीनि वक्ष्यन्ते । विधिना वक्ष्यमाणानुपूव्यों, आचारव्यवस्थार्थमत एव व्रतानीत्युक्तं, इतरथा हि वक्ष्यमाणसूत्रीनिर्देशाद् व्रतमिति ब्रूयात् । चातुर्यामिकनिवृत्त्यर्थं च व्रतग्रहणम्, आगमो ह्ययमाद्यन्तयोस्तीर्थकरयोः सत्वाशयापेक्षया पञ्चमहाव्रतो धर्म इति । समारोप्यात्मस्थानि कृत्वा, किं प्रवव्राजेति वर्तते । यथा हि नाम राजा हस्त्यादिबलयुक्तोऽरीन् निहत्य राज्यं प्राप्नुयादेवमस्य मुख्या प्रवृत्तिरिति ॥ १६॥
सम्यक्त्वज्ञानचारि-त्रसंवरतपः समाधिबलयुक्तः ।
मोहादीनि निहत्या-शुभानि चत्वारि कर्माणि ॥ १७ ॥ आर्या व्या०-सम्यक्त्वेत्यादि । सर्वे इमे धर्माः सकलशास्त्रार्थनिवन्धना वक्ष्यमाणास्तथापि तस्य विशेष उच्यते, सम्यक्त्वं क्षायिक, ज्ञानं केवलादृते, चारित्रं छेदोपस्थाप्यपरिहारविशुद्धि
१-मुद्वेगजननसङ्ग-' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org