SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ १२ तत्त्वार्थाधिगमसूत्रम् [श्रीदेवगुप्तप्राधान्ये, सारं प्रधानमिति यावत्, प्राधान्य एव चायं मुख्यः, विविधं प्रयुज्यते तूपचारतः, सत्त्वमवैक्लव्यं, संहननं शरीरद्रढिमा, वीर्यमुत्साहः, माहात्म्यं महिमा कलादिप्रावीण्य, रूपं चार्वङ्गावयवसनिवेशः, गुणा दाक्षिण्यादयः, लोके चाशुभनिवन्धनानामप्येषां प्रायो दर्शनात् प्रत्येकं शुभविशेषणम्, एभिः शुभैनिवृत्तः हितप्रयोजनैर्युक्तः सम्पन्नः, किन्नामेत्याहजगतीत्यादि । वीरो विक्रान्तः शूरः महान् वीरः महावीरः, इति एवमर्थे, कृत्स्नेऽपि जगति अयमेको महावीर इति । एवं च कृताभिख्यः। अन्तर्मुहूर्तमात्रेण बाल्यकौमारदशे अभ्यतीत्य अवाप्तयौवनतृतीयदशास्त्रिदशा देवाः, तैर्गुणेभ्यो गुणतो, निमित्ते पञ्चमी, अभिख्यातिरभिख्या कीर्तिर्गौणनाम कृतामिख्या यस्येति कृताभिख्यः प्रतिष्ठितकीर्तिरिति यावत् , कथं, गुणतः । तदुक्तं हि प्रवचने-पूर्ववैरसङ्गमसुरोपहितकालचक्रादिसन्निपाताप्रधृप्यत्वादिन्द्रादयो वीरनामानमुच्चैरुच्चेरुरिति, गृहनामापि चास्य गौणं तत्कुलदीप इति गतत्वान कण्ठोक्तम् ॥ १३ ॥ अथ किं प्राकृतवद्गृहमध्युषितवान्, नेत्याहस्वयमेव बुद्धतत्त्वः, सत्त्वहिताभ्युद्यताचलितसत्त्वः। अभिनन्दितशुभसत्त्वः, सेन्द्रलॊकान्तिकैर्देवैः ॥ १४ ॥ आर्या व्या-स्वयमेवेत्यादि । स्वयमेवानुपदेशात् अनाचार्यो बुद्धतत्त्वोऽवगतपरमार्थः । उक्तं हि, पूर्वाधिगतज्ञानत्रय इति, बुद्ध्वा तत्त्वं किमवस्थः-सत्त्वहितेत्यादि, सत्त्वहितार्थमभ्युद्यतमचलितं सत्त्वमस्येति सत्वहिताभ्युद्यताचलितसत्त्वः बुद्धतत्त्वो ह्येवममन्यत 'अलमनेनाने- . ककटुदुःखसन्निपातप्रतिभयबहुलेन संसारवासेन, मोहदौरात्म्यं हीदं यदिमेऽन्धतमसेऽपि वर्तमानाः सत्त्वा नोद्विजन्ते तदेषां प्रतिबोधनं न्याय्य'मिति, एवमभिध्याय अभिनन्दितशुभसत्त्वः अभिनन्दितमनुमोदितमभिष्टुतमनुहितं सत्त्वमस्याभिनन्दितशुभसत्त्वः, केनाभिनन्दितं, सेन्द्रलॊकान्तिकैर्देवैः, सलोकान्तिकैरिन्द्रैरिति प्राप्ते सेन्द्ररित्युक्तं, लोकान्तिकानामत्र प्राधान्यात् , ते ह्यत्यन्तसम्यग्दृष्टय एतच्छीलाच, वक्ष्यति हि लोकान्तिकास्तु सर्व एव सम्यग्दृष्टय इति ॥ १४ ॥ एवमभिसम्बुद्धेन किमनुष्ठितमित्याहजन्मजरामरणात, जगदशरणमभिसमीक्ष्य निःसारम् । स्फीतमपहाय राज्यं, शमाय धीमान प्रवव्राज ॥१५॥ आर्या व्या०--जन्मजरेत्यादि । जन्मना जरया मरणेन च आर्तमभिद्रुतमभिभूतमभिग्रस्त जगत त्रिभुवनमप्यत्राशरणं अपरित्राणं अभिसमीक्ष्य ज्ञानचक्षुषाऽवलोक्य, निःसारं निस्सुखम १' व्यतीत्य ' इति क-पाठः । २ 'गौणं नाम ' इति क-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy