________________
सूरिकृतीका ]
सम्बन्धकारिकाः यः शुभकर्मासेवन-भावितभावो भवेष्वनेकेषु । जज्ञे ज्ञातेक्ष्वाकुषु-सिद्धार्थनरेन्द्रकुलदीपः ॥ ११ ॥ आर्या
व्या०-यः शुभकर्मेत्यादि । य इत्युद्देशोऽस्मादेकादश्यामार्यायां तस्मै इति निर्देशापेक्षः। शुभं कर्म भूतव्रत्यनुकम्पादानादिहेतुकं दर्शनविशुद्धयादिहेतुकं च वक्ष्यते (अ० ६, सू० १३,२३)। तस्यासेवनमभ्यासस्तेन भावितोभावोऽन्तरात्माऽस्येति शुभकर्मासेवनभावितभावः। कियत्कालं, भवेष्वनेकेषु, नैकस्मिन्न द्वयोर्बहुषु । आगमो ह्ययं कान्तारप्रनष्टसाधुमार्गाप्रदर्शनात् सम्यग्दर्शनप्रथमलाभो वर्धमानस्वामिन इति । अन्ते किमित्याह-जज्ञे ज्ञातेत्यादि । जज्ञे जातवान्, क, ज्ञाता नाम क्षत्रियविशेषाः, तेषामपि विशेषसंज्ञा इक्ष्वाकवः, केषु, ज्ञातेष्विक्ष्वाकुषु, तेषामपि बहुत्वात् पितुरस्य विशेषणं सिद्धार्थः, स एव नरेन्द्रः, तस्य कुलं गृहं, तदुपचारात् सन्तानो वा, तस्मिन् दीपनं दीपः, प्रकाशोऽद्भुतं ललामेत्यर्थः । वर्धते हीदं कोशाधभिवृद्धया वर्धमान इत्यतो दीप इत्युक्तम् ॥११॥
किंगुणो जातवानित्याहज्ञानैः पूर्वाधिगतै-रप्रतिपतितैर्मतिश्रुताविधिभिः । त्रिभिरपि शुद्धैर्युक्तः, शैत्यातिकान्तिभिरिवेन्दुः ॥ १२॥ आर्या
व्या०--ज्ञानैरित्यादि । पूर्वमेवाधिगतान्यवाप्तानि पूर्वाधिगतानि ज्ञानानि, तैरप्रतिपतितैरनावृतैः । अप्रतिपतितग्रहणाच्च ज्ञापयति पूर्वतमभवेष्वपि शुभकर्मासेवनादवाप्तान्येवासन, प्रमादात् तु पुनरावृत्तान्यनन्तरैः पुनरप्रतिपतितैरिति । अत एव प्रागुक्तमस्माभिः कर्मक्लेशेषु न विश्वसितव्यमिति । ज्ञानपञ्चकत्वादाह-मतिश्रुतावधिभिः, तेषामप्येकैकशः शुद्धितारतम्यसद्भावादाह-त्रिभिरपि शुद्धैर्युक्तः त्रिभिरपीति, विशुद्धिमेव विशेषयति, त्रीण्यपि शुद्धानि नैकं द्वे वेति, अन्यथा त्रिकं कण्ठोक्तमेव । युक्तः, सहितः, सम्पन्नः, युक्तग्रहणात् तु नान्यत् ज्ञानमाशङ्कितव्यम् , उक्तसलिलस्वच्छता(भा)वाप्तिवत्, वक्ष्यते च समाधिः शास्त्रे, किं पुनरिथमित्याह-शैत्यद्युतिकान्तिभिरिवेन्दुः, युक्त इति वर्तते, यथा हीन्दुः शैत्यादिभिरविरहितः क्षेत्रात् क्षेत्रान्तरं यात्येवमसावपि अप्रतिपतितज्ञानत्रयो देवभवादिहागत इति ॥ १२ ॥
तस्य जातस्य किं खरूपमित्याहशुभसारसत्त्वसंहन-नवीर्यमाहात्म्यरूपगुणयुक्तः । जगति महावीर इति, त्रिदशैर्गुणतः कृताभिख्यः ॥ १३ ॥आर्या व्या०-शुभसारेत्यादि । अयं सारशब्दोस्ति तावद् बाहुल्ये, त्वकसारो वेतसः,अस्ति
'सार'शब्दस्य अर्थविविधता द्रढिम्नि सारकाष्ठः खदिरः, अस्ति परिवि'सारशब्दस्या- स्तरे एतत्सारोऽयं मनुष्यः, अस्ति क्षेपे वाक्सारो भवान्, अस्ति प्राधान्ये
सारोऽयमत्र गृहे, अस्ति सुखे अत्रैव वक्ष्यति निःसारः संसार इति, इह तु
र्थविविधता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org