SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् [ श्रीदेवगुप्तनानामपि प्रमादिनां प्रतिमादिदर्शनेन तद्वन्दनगुणानुस्मरणात् संवेगादि भवतीति साधूक्तं . तत्पूजनं न्याय्यमिति ॥ ८॥ ____ गृहीतमेतत्, यत् पुनरुक्तं कृतार्थोऽप्युपदिशतीति तद्विरुद्धं, कृतार्थश्चोपदिशति चेति, नहि कश्चिन्निरभिवाञ्छः श्रममाद्रियमाणो दृष्ट इति चोदितः कारणमाह तीर्थप्रवर्तनफलं, यत् प्रोक्तं कर्म तीर्थकरनाम । तस्योदयात् कृतार्थो-ऽप्यर्हस्तीर्थ प्रवर्तयति ॥ ९॥ आर्या व्या०–तीर्थप्रवर्तनेत्यादि । भवसमुद्रं तरन्ति तेन तद्वाऽधिगम्येति तीर्थ, प्रवचनमित्यर्थः, तस्य प्रवर्तनं प्रणयनं, तदस्य कर्मणः फलम्, उपभोगो विपाकः प्रयोजनमिति तीर्थप्रवर्तनफलं, यत् प्रोक्तं उपदिष्टं कर्म, कोक्तं, प्रवचने, तत्प्रामाण्याच शास्त्रे (अ०६, सू०२३) वक्ष्यते दर्शनविशुद्धयादिहेतुकं कोष्टके । कतरत् पुनस्तदित्याह-तीर्थकरनाम, तीर्थ करोतीति तीर्थकरः। 'कृञो हेत्वादिषु' (पाणिनिः अ०३, पा० २, मू० २०) इति हेतौ टः, तीर्थकरस्तीर्थहेतुरित्यर्थः, तस्य नाम, कारणे कार्योपचारः, तीर्थकरनाम कारणं तीर्थकरनाम, यस्मिन्नुपात्ते तीर्थकरोऽयमित्येवं व्यपदिश्यते, तस्योदयात् कृतार्थोऽप्यहस्तीर्थ प्रवर्तयति, यत्प्रोक्तं तस्योदयात् तद्विपाकात् कृतार्थोऽप्यहस्तीर्थमित्येतदुक्तनिर्वचनं, प्रवतयति प्रणयति उपदिशति करोतीति, तस्य चैतदेव फलमित्युक्तं, न चोपभुञ्जानः पुनरपि वेद्यते इत्याशङ्कितव्यम्, उक्तं हि षष्ठस्य निरनुबन्धं कर्मेति, किंपुनरित्थं दृष्टमित्याह-न किश्चिदसाधारणोऽयमतिशयः तथापि निदर्शनमात्रमिदम् ॥ ९॥ तत्स्वाभाव्यादेव, प्रकाशयति भास्करो यथा लोकम् । तीर्थप्रवर्तनाय, प्रवर्तते तीर्थकर एवम् ॥ १०॥ आर्या व्या०–तत्स्वाभाव्यादेवेति । तदेव प्रकाशनं स्वभावस्तत्स्वभावः तद्भावस्तत्स्वाभाव्यं प्रकाशमयमित्यर्थः । तस्मादेव कारणात् प्रकाशयति अवभासयति, तन्मयत्वमेवास्य प्रकाशने कारणं नान्यदित्येवकारोऽवधारयति । भासः करोतीति भास्करः। यथा,धर्मप्रत्यासत्तौ, लोकं भुवनम् । अत्र च भास्करग्रहणेन तद्विमानसम्प्रत्ययस्तदुपदेशस्तु प्रतीतत्वात् । तीर्थप्रवर्तनाय प्रवर्तते, तीर्थकर एव तीर्थमुक्तं तत्प्रवर्तनाथ, प्रवर्तते प्रभवति तीर्थकर एवं, यथा भास्करः, उभयोरपि स्वभावानुगृहीता निराकाङ्क्षा तन्मात्रफला प्रवृत्तिरित्यर्थः, तदेवं सर्वतीर्थकरोपदेशप्रयोजने व्याख्याते ॥ १० ॥ ___अधुना यस्य तीर्थे प्रवर्तमाने आचार्यः शास्त्रं प्रकर्तुमिच्छति तं जन्मनः प्रभृति कथयितुकाम इदमाह १ 'तद्वचनगुणा' इति क-पाठः। २ 'गृहीतं तत्' इति क-पाठः । ३ देशप्रयोजन व्याख्यातम्' इति क-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy