________________
सूरिकृतटीका ]
सम्बन्धकारिकाः निर्दिशति-अर्हन्नेव, नाम्नः प्रयोजनमुक्तं निरुक्तद्वारेण पूजामहतीति, एवावधारणे अयमेवासावुत्तमोत्तमो नान्य इति । लोके, कृत्स्नेऽपि जगति नैकदेशे । कुतः पुनः पूजामहतीत्याह-देवर्षिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसत्त्वानाम् । देवेभ्य ऋषिभ्यो नरेन्द्रेभ्यः प्रत्येकमिन्द्रशब्दः । पूज्येभ्योऽप्यन्यसत्त्वानामिति माहात्म्यख्यापनमेव, अन्यसत्त्वानां देवादयः पूज्यास्तेभ्योऽप्यर्हति पूजामर्हन्निति । एवं चान्येभ्योऽपि पूजामर्हतीति व्याख्यातमेव, नहि राजनि समुत्तिष्ठति पर्षदुत्थानं प्रति वितर्कः । स तावदहेतु पूजां, अथ पूजकानां तु कृतार्थमकोपप्रसादमर्चयतां का गुणावाप्तिः ? नैवं शङ्कयम्, दृश्यते हि अमिरकोपप्रसादोऽपि सेवकानामीप्सितनिवृत्तिहेतुः स्यात् । अग्नेरिव दाहाद्यनीप्सितमपि तस्माद् भविष्यतीति, तच्चैव, दुष्टबुद्धयो ह्यरागद्वेषमप्यग्निमिवान्यायेन सेवमानाः स्वाशयदोषादेव शशिनीव लोष्टुक्षेपमात्मोपयाताय कर्मोपचिन्वन्ति, स्वपरिणामो हि नः प्रवचने प्रधानं कर्मोपचयहेतुरित्युपदेशः, वक्ष्यति च शास्त्रे "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" (अ० ७, सू०८) इत्येवमादिषु ॥ ७॥
ननु चात एव ते सुतरामाहाँ यदुत निराकृतरागद्वेषमलाः । नहि कलुषमुदकं मलविशुद्धये, यद्येवमुच्यतां तर्हि तदर्चनात् किं हितमवाप्यत इत्याह
अभ्यर्चनादर्हतां, मनःप्रसादस्ततः समाधिश्च ।
तस्मादपि निःश्रेयस-मतो हि तत्पूजनं न्याय्यम् ॥ ८॥ आर्या ___ व्या०-अभ्यर्चनादहतामिति । अभ्यर्चनात् पूजनात्, अभिगमनस्तुतिवन्दनपर्युपासनादेः, केषाम् अर्हता, कर्मणि षष्ठी, अर्हन्तोऽभ्या इत्यर्थः । किं भवतीत्याह-मनःप्रसादः मनसः प्रसादः, प्रसीदति मनः । न चैतदाशङ्कयम्, प्राक् पूजनादप्रसन्ने मनसि पूजनप्रवृत्त्यभाव एवेति, भवति हीश्वरानुवृत्त्यादिभिरपि प्रवृत्तिः, सा च लौकान्तिकविधौ वक्ष्यते। पूजनात् ऊर्ध्व प्रायेण मनसि प्रसादाभिप्रायः, लोकेऽपि ह्यप्रसन्नमनसामपीष्टजनादिसमागमानन्तरं मनःप्रसाद इति प्रतीतम् । ततः किमित्याह-ततः समाधिश्च, तस्मान् मनःप्रसादात् समाधिरेकाग्रता निर्विप्लवमनस्त्वं निर्वृतिर्भवति । चशब्दः समुच्चये, समाहितस्य सतः शुश्रूषा, ततः श्रवणं, श्रवणाद ग्रहणधारणोहापोहाः, ततः संसारतत्त्वाधिगमः,तस्माद्धिताहितप्राप्तिपरिहारावित्येवमादयचेति, तस्मादपि निःश्रेयसं,तस्मादपि समाध्यादिगुणावाप्तितारतम्यानिःश्रेयसमधिगम्यत इति । अतो हि तत्पूजनं न्याय्यम्, यत इयं कल्याणपरम्परा निःश्रेयसनिष्ठा निर्वर्तते, तत एव तेषां कृतार्थानामपि सतामहतां पूजनं न्यायादनपेतमिति सिद्धम् । एवं च कृतार्थत्वेऽपि सुतरामर्हत्पूजनं न्याय्यमिति दर्शितं भवति । अधुना हि सत्त्वाः प्रायोऽलसाः क्लेशादिभीरवः प्रमादिनश्च तेषां शान्ताकारप्रतिमादि दृष्ट्वा द्रव्याद्यपेक्षकर्मोपशमादिलब्धमोहनीयविवरप्रसन्नमनसां प्रायेण तद्वचनश्रवणश्रद्धोपजायते, ततो दर्शनादिलाभ इति । केषांचिच्चाधिगतदर्श
१'अलं शुद्धये' इति क-पाठः !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org