________________
४४० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ रलोपादुत्पादादिलक्षणायोगात् परिणामाभावः, अपरिणामित्वाचानिर्धार्यमात्रस्वभावाः स्युर्धमादयः, स्वत उत्पादव्ययपरिणामशून्यत्वात्, तस्मात् सर्वत्र केचिदनाद्याः केचिदादिमन्तः परिणामा इति न्यायः, सूत्रकारेण तु भजनाप्रदर्शनार्थमेवं सूत्रन्यासः कृत इति ॥ ४३ ॥ .
. यदुक्तमनन्तरमनाद्यादिमत्परिणामा रूपिष्वरूपिषु च धर्मादिषु सर्वत्र भवन्तीति तत्प्रदर्शनार्थममूर्तेकद्रव्यमुद्दिश्यादिमत्परिणामनिर्दिदिक्षया सूत्रं पपाठ
सूत्रम्-योगोपयोगी जीवेषु ॥ ५-४४ ॥ टी०-अनन्तरसूत्रादादिमानित्येतदनुवर्तते, तच्च योगोपयोगयोर्विशेषणतया प्रयुज्यते, द्विवचनान्तमादिमन्ताविति, योजनं योगः-पुद्गलसम्बन्धादात्मनो वीयेविशेषः, युज्यते वा स इति योगः, केन ? आत्मना, शक्तिविशेषः प्राप्यत इतियावत्, कायवामनोरूपेणोत्पादः, उपयोजनमुपयोगः-चैतन्यस्वभावस्यात्मनो ज्ञानदर्शनाभ्यां स्वविषयोपलभ्यादिव्यापारः प्रणिधानादिलक्षणः, उपयुज्यतेऽनेन वेति समाधिविशेषस्तद्वारकोऽर्थपरिच्छेदोऽप्युपयोगस्तेनाकारेणात्मनो व्याप्तिः। कृतद्वन्द्वनिर्देशाद् योगोपयोगी जीवेषु-आत्मस्वेकद्वित्रिचतुःपञ्चेन्द्रियेषपपद्यमानोत्पत्तिकालावधित्वादादिमन्तौ, सिद्धेषु तु सकलयोगोच्छेदादुपयोग एव क्रमवृत्तिरादिमानेक इति । एनमेवार्थ भाष्येण स्फुटयति
भा०-जीवेष्वरूपिष्वपि सत्सु योगोपयोगी परिणामावादिमन्ती भवतः॥
टी-जीवेष्वरूपिष्वपि सत्सु इत्यादि भाष्यम् । द्रव्यभावप्राणैः अजीविषुर्जीवन्ति जीविष्यन्ति चेति जीवाः । जीवेष्विति निमित्तार्था सप्तमी । जीवनिमित्तौ योगपरिणामावादिमन्तौ भवतः, तथापरिणामित्वादात्मनः,अथवा परिणाम्यपि कथञ्चिद् भेदविवक्षायां स्वपरिणामानामाधारतां प्रतिपद्यत एवेति, तेष्वात्मसु मूर्तिवियुतेष्वपि भवत्सु । अपि. शब्दोऽपेक्षायाम् । यथाऽयमपि विद्वान् , एवमण्वादिष्वादिमान् परिणामो जीवेष्वपीति समानम्, बहुव्रीहिणोक्तेऽपि मत्वर्थीयः कचिदभ्यनुज्ञातः, पाणिनीयेऽपि "इधार्योः शत्रकृच्छ्रिणि" ( अ० ३, पा० २, सू० १३०, ) इति अरूपशब्दो वाऽतीत(जाति)वचनस्ततश्च सिध्यति च मत्वर्थीयः। 'कृष्णसर्प त्ववल्मीके' इति यथा, तत्रान्योन्यानुगतिलक्षणसम्बन्धादात्मनः कथं वामनोयोग्या पुद्गलानां च कायाद्यवष्टम्भोद्भूता शक्तिर्योगः।
भा०-स च पञ्चदशभेदः।।
टी०-सामान्येन गमनादिकथनचिन्तनक्रियालक्षणः औदारिकवैक्रियाहारकमिश्रयोगास्त्रयः, तैजसकाणे त्वेकः, वाग्योगः सत्यमृषाऽसत्या (मृषा) उभयभेदाच्चतुर्धा, एवं मनोयोगोऽपि चतुर्धा, उपयोगः साकारानाकारलक्षणो जीवस्वभावः।
भा०–स च द्वादशविधः।
मन्तौ' इति क-पाठः। २ 'तेऽप्यात्मसु' इति जैनानन्दपुस्तकालयप्रतिपाठः। ३ ' ज्ञानु पाणिनिमा यथा-इन्द्रा०'इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org