________________
सूत्र ४४] स्वोपज्ञमाष्यटीकालङ्कृतम्
४४१ टी-मतिश्रुतावधिमनःपर्यायकेवलमतिश्रुतावध्यज्ञानत्रयभेदः पूर्वः (प्राच्यः ), पाश्चात्त्यश्चक्षुरचक्षुरवधिकेवलभेदः। एतौ योगोपयोगी परिणामावित्यनेनात्मनः सद्भावा पत्तिं दर्शयति । आत्मा कायादिपुद्गलशतसम्बन्धात् तां तां गमनादिकथनचिन्तनक्रियां प्रतिपद्यते तद्रूपीभवति, क्षीरोदकवत् मृद्धटवच्च तादात्म्यं प्रतिपद्यत इतियावत् । स चोपजायमानकालावधिकत्वादादिमान्, सन्तत्या त्वनादिः, उपयोगोऽपीन्द्रियनिमित्तस्तभिरपेक्षश्चात्मनो ज्ञस्वभावत्वाच्चैतन्यरूपत्वात् परिणामः सामान्य विशेषरूपः, सन्तत्याऽनादिः, प्रत्येकविवक्षायामादिमान् , अनयापि चोपयोगलक्षणमात्मनः सार्वकालिकत्वात् , योगोपयोगग्रहणाचान्येषामात्मन्यनादित्वं प्रायः परिणामानाम् । अथ मत्याधुपयोगद्वादशकस्य किं स्वरूपमित्यारेकिते इदमाह
भा०-तत्रोपयोगः पूर्वोक्तः॥
टी०-तत्र-तयोयोगोपयोगयोः उपयोगः पूर्वमेव द्वितीयेऽध्याये व्याख्यातः-स्वरूपेणोक्तः। " उपयोगो जीवलक्षणम्", "स द्विविधोऽष्टचतुर्भेदः" (अ० २, सू० ८, ९) इत्यत्र । अथ योगः किंस्वरूप इत्याशङ्कयाह
भा०-योगस्तु परस्ताद् वक्ष्यते ॥
टी०-परस्तादिति उपरिष्टात् षष्ठाध्यायादिसूत्रे “कायवाचनाकर्म योग" इत्यत्रा मिधास्यते यतः तस्मादत्र न व्याख्यायते । तुशब्दो हेत्वर्थः। तदेव च स्थानं योगस्वरूपन्यावणेनस्य, उभयत्र व्याख्या गौरवमापादयति, तस्मात् तत्रैव व्याख्यास्याम इति, एवं सर्वद्रव्याणि परिणामवन्ति स्वरूपेण व्याख्यातानीति ॥ ४४॥ इति श्रीतत्त्वार्थाधिगमे अर्हत्प्रवचने भाष्यानुसारिण्या तत्त्वार्थटीकायां
पञ्चमोऽध्यायः ॥५॥
ANARRAMMAR
॥ प्रथमो विभागः समाप्तः ॥
Jain'Education International
For Private & Personal Use Only
www.jainelibrary.org