SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ सूत्र ४३] स्वोपज्ञभाष्य टीकालङ्कृतम् ४३९ सूत्रम्-रूपिष्वादिमान् ॥ ५-४३ ॥ टी०-रूपाव्यभिचारिणः स्पर्शादय इति नोपात्ताः, स्पर्शश्च रूपाद्यव्यभिचारी कचित् किञ्चित् कदाचिदुद्भूतशक्तिर्भवति, कचिन्न्यग्भूतशक्तिः, लवणशकलादिवत् । अतः सर्वे वाय्वादयश्चतुर्गुणाः, स्पर्शवत्त्वात् , तत्रानेकः परिणामः पुद्गलेषु व्यणुकादिस्कन्धलक्षणः, शब्दादिः शुक्लपीतादिश्च, तत्र यदा द्वावणू विस्रसातो घणुकस्कन्धमारभेते, तदा ध्यणुकस्कन्धपरिणाम आदिमान , एवं शेषा अपि प्रयोगविस्रसाजनिता यथावद् द्रष्टव्या इति, एतदेव भाष्येण स्पष्टयति___ भा०-रूपिषु तु द्रव्येषु आदिमान् परिणामोऽनेकविधः स्पर्शपरिणामादिरिति ॥४३॥ टी०-रूपिष्वित्यादि । रूपमेषामेषु वाऽस्तीति रूपिणः, (प्राणिस्थादातो) लजन्यतरस्या' (पा० अ० ५,पा० २, सू० ९६) ग्रहणं तत्र समुच्चयार्थव्याख्यातम्, रूपिण्यप्सरा इति यथा। तेषु रूपिषु रूपस्पर्शरसगन्धवत्सु द्रव्येषु द्रुतिलक्षणेपूत्पादव्ययवत्स्वादिमान् परिणामोऽनेकप्रकारः, स्पर्शरसगन्धवर्णादिः । स्पर्शोऽष्टधा शीतादिः शीततरशीततमादिश्च, रसः पञ्चविधस्तिक्तादिस्तिक्ततरादिश्च, गन्धो द्विधा सुरभिरसुरभिः सुरभितरादिश्च, वर्णः शुक्लादिमेदात् पञ्चविधः शुक्लादिः शुक्लतरादिश्च, आदिशब्दाद् ब्यणुकादिसङ्घातभेदलक्षणः शब्दादिथेत्येवमनेकाकारः परिणामः पुद्गलद्रव्यविषयः, जन्मादिविनाशान्तविशेषसंस्पृष्टः स्वरूपसामान्यविशेषधर्माधिकारी तद्भावलक्षणः परिणामः आदिमान् भवति, तुशब्दो विशेषणार्थः, द्रव्यत्वमूर्तत्वसत्त्वादयोऽनाद्या अपि पुद्गलद्रव्ये परिणामाः सन्तीत्यमुमर्थ विशिनष्टि, समुच्चयार्थो वा तुशब्दः आदिमांश्च, चशब्दादनादिश्च । एवं तीरूपिष्वपि द्रव्येष्वादिमानपि परिणामोऽस्तु, अस्त्येव योगोपयोगलक्षणो जीवेषु वक्ष्यमाणः, धर्मादिष्वपि भवतु तद्वदेवेति, को वा निवारयति सन्तं पदार्थम् ? यथा स्वयं गन्तुर्जिगमिषापरिणतस्याधुना धर्मद्रव्यमुपग्राहकं भवति, उपग्राहकत्वं च धर्मपर्यायः स च प्राङ् नासीत्, तस्य गन्तुर्गतिपरिणतेरभावात्, अधुना चोपजायमानः सादिरेव, देवदत्तगन्तुगत्युपरमेऽन्तवान्, एवं जन्मविनाशवत्वात् सादित्वम्, न चोपग्राहकत्वमुपग्राह्यमन्तरेणास्ति, एवमधर्मद्रव्यं स्थितिपरिणामभाजः स्थित्युपग्रहरूपेण परिणमते, व्योमाप्यवगाहुरवगाहदानपर्यायेण, कालश्च वृत्तवर्तमानादिपरिणत्या भवस्यादिमान, एवमेष परिणामो द्रव्यार्थिकव्यापाराद् धर्मादिस्वभावी न धर्मादिव्यतिरिक्तः, कचिद् वैनसिकः कचित् प्रायोगिकः कचिदुभयथोत्पादव्ययध्रौव्यलक्षणत्वात् सतः, न चोपचारस्तत्त्वचिन्तायामङ्गभावं प्रतिपद्यते, इत्येवमनुमोदामहे तत्रादिमन्तं परिणामम् । ये तु मन्यन्ते रूपिष्वेवादिमान् परिणामो भवति, नामूर्तेषु धर्मादिषु, तेपामरूपिद्रव्यपर्यायाश्रयव्यवहा १ 'स्वानानेकः' इति क-व-पाठः। २ 'रमेण परिणतवानेव' इति क-ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy