________________
सूत्र ३८] स्वोपज्ञमाष्य-टीकालङ्कृतम्
४२९ भेदेन व्यवन्हियते चैतन्यमात्मनीति । एवं सैव पुद्गलद्रव्यजातिः स्वरूपमजहती समासादिततत्तद्गुणविशेषरूपादिपिण्डादिव्यपदेशे हेतुरित्यतः कथञ्चिद् भेदाभेदस्वरूपं गुणपर्यायवदू द्रव्यमुच्यते, तथा धर्माधर्माकाशजीवद्रव्याण्यपि गुणपयोयवन्ति भावयितव्यानि प्रागभिहितक्रमेण, द्रव्यं हि भव्यं योग्यं सहक्रमभुवां गुणपर्यायाणाम् , अत्र चागुरुलघुप्रभृतयः सहभुवो गुणाः, पयोयाः क्रमभुवः, पुनगेतिस्थित्यवगाहज्ञानदर्शननारकादयो गुणपयोयाः पूर्वमेव भाविता इति ॥ ३७॥ __एवं गुणपर्यायपरिणामि द्रव्यलक्षणमिति प्रपञ्चे निर्णीते पर आशङ्कते—धर्माधर्मादीनि द्रव्याणि पञ्च स्वपरिणामलक्षणगुणपर्यायात्मकानि व्यावर्णितविविधोपकाराणि प्रदर्शितानि, तत्र कालस्यापि पूर्वमुपकारो वर्णित एव वतेनादिगुणपोयलक्षणः, स च कालो द्रव्यमित्येवं न पूर्व नाधुना व्याख्यातः, न चोपकारकमन्तरेणोपकारः समस्ति शक्यं वक्तुम् , वर्तनादिरुपकारः सोपकारकः स्थित्यादिवदुपकारत्वात् , तत् किमयं स्मृतिप्रमोषो युष्माकं येन विविक्तोपकाराधारः कालो द्रव्यं नोक्तः ? आहोस्विद् धर्मादिद्रव्यपञ्चकसाध्य एवायं वर्तनादिव्यापार इति विरचितप्रश्ने श्रोतरि सिद्धसाध्यतोद्विभावयिषाद्वारेण सरिराह-- कालस्य द्रव्यत्वम् सूत्रम्-कालश्चत्येके ॥ ५-३८॥
टी.-विशिष्टमर्यादावच्छिन्नोर्ध्वाधोऽर्धतृतीयद्वीपाभ्यन्तरवर्तिजीवादिद्रव्यैः परिणमद्भिः स्वत एव कल्पते गम्यते प्रथ्यतेऽपेक्ष्यते कारणतयाऽसाविति कालोऽपेक्षाकारणम् , बलाकाप्रसवे गर्जितध्वनिवत्, पापविरतौ वा प्रबोधवत् , चशब्दो द्रव्याकर्षणार्थः, कालश्च द्रव्यं षष्ठं भवति, इतिशब्द एवंशब्दार्थे, एवमिति युक्त्यभिधानेन प्रकारान्तरेण च न नियुक्तिकं द्रव्यत्वमाचक्षते कालस्य, एके इत्यसहायार्थ एकशब्दः, एकस्य नयस्य भेदलक्षणस्य प्रतिपत्तारः तदुपयोगानन्यत्वादेकेऽनपेक्षितद्रव्यास्तिकनयदर्शनाः कालश्च द्रव्यान्तरं भवतीत्याचक्षते । एतदेव भाष्येण सोपपत्तिकं स्फुटयति
भा०-एके त्वाचार्या व्याचक्षते-कालोऽपि द्रव्यमिति ॥ ३८ ॥
टी-एके त्वाचार्या इत्यादिना। एके नयवाक्यान्तरप्रधाना विशेषेणाचक्षते-व्यक्ती. कुर्वन्ति युक्त्या, परापरप्रत्ययाभिधाने तावदत्यन्तप्रसिद्धत्वानिनिमित्ते नाभ्युपगन्तुं शक्ये, यच्चानयोर्निमित्तं स कालः, तद्यथा-युवस्थविरयोः, सिद्धे परत्वापरत्वे देशकृते परापरदेशयोगात् । अथ दृष्टोऽपरदेशयुक्ते त्वपरस्मिन्नपि स्थविरे परप्रत्ययः पराभिधानं च, तथैव च परदेशसंयोगात् परस्मिन्नपि यून्यपरप्रत्ययोऽपराभिधानं च, तावेतौ व्यतिकरस्वभावावभि
१ 'सहजक्रम ' इति क-पाठः।
२ 'दृष्टोऽर्वागूपर०' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org