SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४२८ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ५ टी०-गुणान् लक्षणतो वक्ष्याम इत्यादि भाष्यम् । सङ्ख्येयासङ्ख्येयानन्तसख्यया सख्यायमानत्वाद् गुणाः-शक्तिविशेषाः, त एव क्रमेण सह च भवन्तः सर्वतोमुखत्वाद् भेदाः-पर्यायास्तान् गुणान् पिण्डघटकपालादीन रूपादींश्च, लक्षणतः असाधारणशक्तिविशेषात्, अभिधास्यामः (सू० ४० )-" द्रव्याश्रया निर्गुणा गुणाः " इत्यत्र, द्रव्यस्य हि गुणपर्यायाः परिणतिविशेषाः सम्भवन्ति, न तु गुणपर्यायाणां केचिदन्ये गुणपर्यायाः सन्तीत्येवं भावयिष्यामः । व्यवहारनयसमाश्रयणेन तु गुणाः पर्याया इति वा भेदेन व्यवहारः प्रवचने, युगपदवस्थायिनो गुणा रूपादयः, अयुगपदवस्थायिनः पर्यायाः, वस्तुतः पर्याया गुणा इत्यैकात्म्यम् । यत आह"दो पन्जवे दुगुणिए लभति उ एगाओ दवाओ" (आवश्यकनियुक्तौ गा०६४)। तथा"तं तह जाणाति जिणो, अपज्जवे जाणणा नत्थि" (आव०नि० गा० १९४)। तथा" देवप्पभवा य गुणा न गुणप्पभवाई दव्वाई " ( आव० नि० गा० १९३)। एवमेकमेवेदमितिमन्यमान आह-भावान्तरं संज्ञान्तरं च पर्यायः,भावादन्यो भावो भावान्तस्म, समभिरूढनयाभिप्रायेणेन्दनशकनपूर्दारणादयोऽर्थविशेषा रूपादयश्च भावान्तरा भावभेदाः संज्ञान्तराणांप्रवृत्तौ निमित्तभूताः,संज्ञान्तरं चेन्द्रशक्रपुरन्दररूपादि, एवमथेभेदाः संज्ञाभेदाश्चगु. पपर्याया निश्चीयन्त इति, तदेतदुभयं व्यवहारनिश्चयात्मकं गुणशब्दाभिधेयं पर्यायशब्दाभिधेयं च यत्र-यस्मिन् स्थित्यंशे विद्यते-सामान्यलक्षणेऽस्ति तद्भावलक्षणपरिणतितयाऽवस्थितलक्षणं द्रव्यमिति, अनेन चैतत् प्रतिपाद्यते-द्रव्यं परिणामि, गुणपर्यायाः परिणामाः प्रसवव्ययलक्षणा इति। एतदेव स्पष्टयति-गुणपोया इत्यादिना। उक्ताः प्रथमं गुणपर्यायाः, अस्यास्मिन् वा विद्यन्त इति मत्वर्थमुपलक्षयति, अस्यैते रूपादयः पिण्डादयश्च तद्भावलक्षणपरिणामाः सन्ति, न जातुचिनिष्परिणामं द्रव्यमुपतिष्ठते, विकारलक्षणा चेयं षष्ठी, यवानां धाना इति यथा, यवास्तु द्रव्यत्वसत्त्वमूतोद्यपरित्यजन्त एव धानाकारेण विक्रियन्ते, न च विकारोऽत्यन्तमेव प्रकृतेर्भेदेन वर्तते, तदन्वयवद् दशासु सुवर्णागुलीयकादिवत्, नाप्येकान्तेन भेदः, संज्ञाप्रयोजनादिप्रतिनियमात्, तथा कदाचित् परिणामिपरिणामयोराधाराधेय विवेक्षायां व्यावहारिक्यां भेदप्रधानायामस्मिन् परिणामिनि स्थित्यंशे रूपादिपिण्डादयः परिणामाः सन्ति भेदान्तरकल्पनया, तथाऽऽत्मनि चैतन्यम्, आत्मा तु ज्ञालाद्याकारेण परिणममानोऽसत्यपि भेदे १' द्वौ पर्यवौ द्विगुणितौ लभते तु एकस्मिन् द्रव्ये। २ तत् तथा जानाति जिनः अपर्यवे ज्ञानं नास्ति । ३ द्रव्यप्रभवाश्च गुणा, न गुणप्रभवाणि द्रव्याणि । ४'विवक्षया' इति क-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy