________________
सूत्र ३७] स्वोपज्ञभाष्य टीकालङ्कृतम्
४२७ कदाचित् परिणामकः, स्वगतेन रूक्षगुणेन स्नेहगुणमात्मसात्करोति परिणामयतीति, गुणसा. म्ये तु सदृशानां बन्धप्रतिषेधः, इमौतु विसदृशावेको द्विगुणस्निग्धोऽन्यो द्विगुणरूक्षः, स्नेहरूक्षयोश्च भिन्नजातीयत्वान्नास्ति सादृश्यम्, तथाऽधिकगुणः-त्रिगुणस्निग्धो हीनगुणस्य-एकगुणस्निग्धस्य परिणमयिता, अनेन ह्येकगुणस्निग्धस्त्रिगुणस्निग्धतामापद्यते, कस्तूरिकांशानुविद्धविलेपनवत्, एतावच्च बन्धजातं समगुणयोर्विषमगुणयोर्वा परिणम्यत्वं च, इतरमात्मसात्कुर्वन् परिणमत इति परिणामकः, परिणम्यगुणसङ्ख्यामाक्षिप्य वा स्वगुणसङ्ख्यामजहत् परिणमत इति परिणामकः, अथवा परिणमनं परिणामस्तं करोति-परिणामयति परिणामकः, आत्मरूपेण परस्यापि परिणामं करोतीत्येवं प्रकृत्यन्तणिजन्तत्वयोर्न कश्चिद् विरोध इति ॥ ३६ ॥
भा०-अत्राह-उक्तं भवता (अ०५, सू० २)--द्रव्याणि जीवाश्चेति । तत् किमुद्देशत एव द्रव्याणां प्रसिद्धिराहोस्विल्लक्षणतोऽपीति ? । अत्रोच्यते-लक्षणतोऽपि प्रसिद्धिः, तदुच्यते
टी०-अत्राह-उक्तं भवतेत्यादिना सूत्रसम्बन्धमाचष्टे । अत्र शास्त्रे भवताभिहितं पश्चमाध्याये वो-द्रव्याणिजीवाश्च(अ०५,सू०२)इति, धर्माधर्माकाशपुद्गला द्रव्याणि जीवाश्चेत्येवं पञ्च द्रव्याणि प्रथममुद्दिष्टानि-सामान्येनोक्तानीति, न तु द्रव्यलक्षणमपदिष्टम्, एवंलक्षणकं द्रव्यमिति, यस्माद् द्रव्यशब्देनोक्ता धर्मादयः तसात् किमुद्देशत एव-सामान्याभिधानमात्रादेव द्रव्याणां-धर्मादीनां स्वरूपप्रसिद्धिः-स्वरूपपरिज्ञानमाहोस्विदस्तिकिश्चिद् वैशेषिकम्असाधारणलक्षणमिति । एवं मन्यते-प्रतिव्यक्ति प्रतिनियमात् लक्षणस्य यथाऽवस्थितलक्ष्यपरिच्छेदित्वादुद्देशतस्तावन्नेष्यते प्रसिद्धिः, किं तर्हि ? लक्षणत इष्यते, ततश्च यतो लक्षणतः प्रसिद्धिर्धर्मादिद्रव्ये तदपदेष्टव्यम् , यथाऽऽत्मनोऽसाधारणं साकारानाकारोपयोगलक्षणम्, सामान्यविशेषसंज्ञाव्यवहार्याश्च सर्वे प्रावचनाः पदार्था इति ॥ ननु चोत्पादव्ययध्रौव्ययुक्तं सदिति सामान्यलक्षणमुक्त(मू०२९), सत्यमेतत्, अमुना तु प्रश्नप्रसरेण विशेषलक्षणमभिधापयति प्रश्नयिता-किं द्रव्यं के वा धमो इति, द्रव्यस्य धर्माणां च विशेषावगतिजिज्ञासाथै प्रश्नः, आचार्योऽपि वैशेषिकं लक्षणं मनसि सन्निवेश्यानोच्यत इत्याह, किमुच्यते ?-लक्षणतोऽपि प्रसिद्धिः, अपिशब्दादुद्देशतोऽपि असाधारणं लक्षणं, तस्माल्लक्षणाद् यथा द्रव्यपदार्थे प्रसिद्धिःविशिष्टविज्ञानोत्पादो विज्ञातुर्भवति तथा तल्लक्षणमुच्यते॥
सूत्रम्-गुणपर्यायवद् द्रव्यम् ॥ ५-३७ ॥ .. भा०-गुणान् लक्षणतो वक्ष्यामः(मु०४०)। भावान्तरं संज्ञान्तरं च पर्यायः। तदु
भयं यत्र विद्यते तद् द्रव्यम् । गुणपर्याया अस्य सन्त्यस्मिन् वा सन्तीति गुणपर्यायवत् ॥ ३७॥
१'च' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org