________________
४३० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ धानप्रत्ययौ यन्निमित्तौ तत्कारणमस्ति कालद्रव्यं, कालापेक्षे परत्वापरत्वे तनिमित्ते च प्रत्ययाभिधाने प्रादुर्भवतः परमपरमिति, तथा युगपदयुगपदिति यन्निमित्ते प्रत्ययाभिधाने स
कालः, निमित्तविशेषे हि प्रत्ययविशेषः सिद्धयत्यभिधानविशेषश्च, कालद्रव्यस्य पार्थक्यम् 4 शुक्लकृष्णादिवत् । दृष्टश्चायं दिग्देशकारणकार्यकर्तृव्यतिरेकेण प्रत्ययो
युगपदयुगपदिति, स चायं नानिमित्तो भवितुमर्हति, यच्च निमित्तं स कालः । इदमुक्तं भवति-तुल्यकार्येषु कर्तृषु साधारणकर्तृकेषु च कार्येषु पृथक् पृथय व्यवस्थितेषु कृतं क्रियते कर्तव्यमित्येतस्मिन् निरूढे कर्तृकर्तव्यभेदे च सति युगपदयुगपच्च कृतं क्रियते कर्तव्यमित्येतमवधिं कृत्वाऽभिधीयते, यतः सोऽर्थोऽन्यः कालसंज्ञः, कृतादीनां योगपद्यायोगपद्येऽन्यनिमित्तासम्भवात् , न चानिमित्तमेतदभिधानम् , तथा समानकार्यावस्थानलक्षणेषु कर्मसु कर्तरि च व्यवस्थिते यत एतद् भवति चिरं क्षिप्रमिति सोऽन्योऽर्थः कालः, न चाकरमादयं प्रत्ययः, तस्मात् यत्सद्भावे भवत्येष प्रत्ययो यदभावे च न भवति स कालः । तुशब्दो विशेषपरिग्रहार्थः, स च विशेषो भेदप्रधानो नयः, तद्बलेन कालोऽपीति, अपिशब्दश्चशब्दार्थः, कालश्च द्रव्यान्तरमागमे निरूपितमिति कथयन्ति-"कति णं भंते ! दव्वा पण्णत्ता? गोयमा छ दव्वा पण्णत्ता, तं जहा-धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, अद्धासमए"॥ विनिवृत्तौ वा तुशब्दः, कस्य व्यावर्तकः? धर्मास्तिकायादिपञ्चकाव्यतिरिक्तकालपरिणतिवादिनो द्रव्यनयस्येति, एवं कालोऽस्ति, स चापेक्षाकारणम् , तथा घःश्वोऽद्यादीनि कालवचनानि स्वरूपविज्ञानव्यतिरिक्तमुख्यबाह्यार्थनिबन्धनानि असमासपदत्वाच्छुदैकपदत्वाद् रूपशब्दवत् , तथा ह्यआदीनि कालवचनानि यथार्थानि यथाभ्युपगममाप्तैस्तथाऽभिधीयमानत्वात् , प्रमाणावगम्यःप्रमेयोऽर्थ इत्येवंविधवचनवत् । एवं च सति तद्भावपरिणामलक्षणसूत्रसमुपनीतैकवाक्यभावस्योत्पादव्ययध्रौव्ययुक्तं सदसू०२९) गुणपर्यायवद् द्रव्यम्(सू० ३७)इत्येतल्लक्षणसूत्रद्वयस्याशेषपदार्थव्यापित्वेन कालस्यापि सत्त्वद्रव्यत्वपरिणामित्वधर्मसद्भावः सिद्धः ॥ ननु च कालो नामाविभागी परमनिरुद्धः समय एवैकः समुच्छिन्नपूर्वापरकोटिः, अत एव चास्तिकाय इति नेष्टः, प्रदेशरहितत्वात् , तस्य च प्रागभावप्रध्वंसाभावावस्थे असत्यावेव वय॑वृत्तशब्दाभिधेये, ततश्चोत्पादव्ययध्रौव्ययोगिता कुतः? कुतो वा गुणपर्यायवद्रव्यता कालस्येति । अत्रोच्यते-जिनवचनमनेकनयशतविभङ्गवृत्तिव्यनुस्यूतस
कलवस्तुभूमिव्यापि प्रधानोपसर्जनीकृतेतरेतररूपद्रव्यपर्यायोभयनयावकाले उत्पादादिमत्ता लम्बि न कचिदेकान्तेन प्रतिष्ठते, प्रथितमेवैतत् , यतः योऽपि ह्यसाव
विभागः परमनिरुद्धः समय एको निष्प्रदेशः सोऽपि द्रव्यपर्यायावबद्धवृत्तिरेवेति, द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्माऽपि स्वरूपानन्यभूतक्रमाक्रममाव्यना
१ कति भदन्त ! द्रव्याणि प्रज्ञप्तानि ? गातम ! षड् द्रव्याणि प्रज्ञप्तानि, तद्यथा-धर्मास्तिकायः, जीवास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकायः, जीवास्तिकायः, अद्धासमयः। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org