________________
सूत्र २९) स्वोपक्षमाप्प टीकालङ्कृतम् ध्रुवं तत् सत् । अतोऽन्यदसदिति ॥ यदुत्पद्यते इत्यादि । यदिति सामान्यमात्राभिषापिना सर्वनाम्ना धर्मास्तिकायादिपश्चकपरिग्रहः, परस्परापेक्षाः समुदिता एवोत्पादादयः सल्लक्षयन्ति, तत्र द्रव्यनयाभिप्रायेणाकारान्तराविर्भावमात्रमुत्पाद औपचारिकः, परमार्थतो न किञ्चिदुत्पद्यते सततमवस्थितद्रव्यांशमात्रत्वात् , तथा व्यय:-तिरोभावलक्षणः, पूर्वावस्थायास्तिरोधानं विनाशः, यतो द्रव्यमेव तथा तथा विवर्तमानमुत्पादविनाशव्यवस्थया व्यपदिश्यते, प्रज्ञायते च पूर्वक्षणोच्छेदेन क्षणान्तरात्मलाभ उत्पादपर्यायस्य, तस्यैव क्षणस्य निरन्वयोच्छेदिता विनाशः, द्रव्यास्तिकस्य ध्रौव्यमन्वयी सामान्यांशः, पर्यायस्योपचाराव, सन्तानमा ध्रौव्यशब्दाभिधेयमेकः सन्तानस्तद्भलेन च प्रत्यभिज्ञादिप्रसिद्धिः, तदेतत् त्रितयमपि प्रतिपादयत्युभयनयसङ्गत्या वस्तुसद्भावप्रतिपत्तये, न धौव्यमुत्पादव्ययशून्यं केनचित् प्रमाणेन गोचरीकर्तुं शक्यते, नाप्युत्पादव्ययौ सामान्यांशवियुताविति, यदुत्पद्यते यद् व्यति यच ध्रुवं तत् सद् विद्यते तदस्तीति, सामथ्यादिदमापनम्-अतोऽन्यदसदिति, अत इत्युत्पादादिसमुदितस्वभावाद् यदन्यत् तदसत्, तच्च किं ? समुदायादपकृष्ट एकक उत्पादो वा विनाशो वा ध्रौव्यं वा उत्पादविनाशौ वा उत्पादध्रौव्ये वा, विनाशधौव्ये वा, इतरनिरपेक्षस्य तादृशांशस्याभावादसद्विषयत्वमसयवहारप्रतिबन्धिता चेति नानुपाख्योऽसच्छब्दवाच्यः, शब्दव्यवहारयोग्यत्वात् ॥ ननु च द्रव्यपर्यायनयौ स्वतन्त्रत्वात् द्वावपि विजिगीषू स्वविषयोपमर्द परस्परं न सहेते, ततश्च पुनरपि सीमन्तितमेव वस्तु न वस्तुतायामवतिष्ठतेति । उच्यतेपर्यायनयस्य तावदुत्पादव्ययलक्षणस्य स्वातन्त्र्यं नास्ति द्रव्यास्तिकेनाङ्कुशितत्वात् । नयुत्पादो नाम कचिद् धर्मोऽस्त्यभूतभवनात्मकः, स चोत्पादो द्विधा कल्प्येत-प्रायोगिको
वैससिकश्च, प्रायोगिकः पुरुषकारनिर्वर्त्यः, सोऽपि द्विधा-अनभिसन्धि... उत्पादादेभेदाः कृतोऽभिसन्धिकृतश्च, तत्राद्यः कायवाक्स्वान्तभेदेन पञ्चदशप्रकारः, ते
च कायादयः. समुदायात्मकाः, समुदायश्चासन् साथेरथचक्रादिवत्, स्वागसमुदायमात्रत्वान्न सार्थो नाम कश्चित् परमार्थतोऽस्ति, रथो वा पुरुषकूवरादिव्यतिरिक्तः, स चाभावत्वात् सार्थरथादिः कथमुत्पद्येत ? एवं कायादयोऽपि पुद्गलसमुदायरूपाः, समूहश्च समूहिमात्रमतस्तत्रापि न कस्यचिदुत्पादः, कायादेः परमार्थतोऽसत्त्वात, अभिसन्धिपूर्वकस्तूत्पादः कायादियोगात् समावास्यादिकरणापेक्षात् स्तम्भकुम्भादीनां प्रेक्षापूर्वकारिपुरुषक्रियाजन्यत्वात् प्रयोगजः, सोऽप्येवमेव समुदायविषयः समुदायवासस्वादेव नोत्पद्यत इत्युत्पादाभाव एव, अन्वयांशनिरपेक्षत्वान्न प्रायोगिक उत्पादः सम्भवतीत्यर्थः। वैससिकोऽपि नास्त्युत्पादः, विस्रसेति स्वभाववचनसंज्ञाशब्दः, स्वाभाविको वैससिकः, तत्र धर्माधर्मव्योमात्मपुद्गलद्रव्याणामिमा वृत्तयो यथाक्रमं स्थितिगत्यक्गाहोपयोगस्पर्शशब्दादिलक्षणाः स्वसद्भावाः, नहि तेषां धर्मादीनां गत्यादयो धर्माः पर्याया वा भवन्ति, यदि भवेयुस्त
'बासादि' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org