SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ २८२ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ५ योगा-परस्परापेक्षः समुदाय एवोत्पादादीनां, न सदित्यस्य ध्वनेर्विषयः, यथा वृक्षा वनं समुदिता एव नैककाः, एवमुत्पादव्ययध्रौव्याणि योगः सदिति, अथवा समाध्यर्थस्य युजेयुक्तं-समाहितं त्रिस्वभावं सत् उत्पादव्ययध्रौव्याण्येव त्रयः स्वभावाः सम्यगाहिताःपरस्परप्रतिबद्धाः सदिति । अन्ये तूत्पादव्ययध्रौव्ययुक्तमिति गृह्णने, किं पुनस्तदुत्पादादिमियुक्तमिति निरूपणीयम् , उत्पादादित्रयव्यतिरेकेण द्रव्याभावान्न विद्यः किं तद् युज्यमानमुत्पादादिभिः । अपरे समाधानमाक्षेपस्याभिदधते ॥ युक्तं विशेष्यते उत्पादव्ययध्रौव्यैः समुदितैर्यो योगस्तद् युक्तं सत्, नान्याभ्यामुत्पादव्ययाभ्यामित्यादिको योगः सदिति, योगच सामान्येनोत्पादादीनामनादिविशेषविवक्षया सादिः, ध्रौव्यं चेति पृथक् प्राधान्यख्यापनाय सामान्यस्य भाष्यकृतोदचारि, यतः सत्यन्वयांशे तदाश्रयावुत्पादविनाशौ सङ्गच्छेते, अन्यथा कस्योत्पादः कस्य चानुत्पन्नस्य तेनाकारेण व्ययः१॥ अपरे तु ध्रौव्यं चेत्यसमस्ततामन्यथा वर्णयन्ति त्रैलक्षण्ये सतः सादिः, कथं सन्न त्रिलक्षणम् । ध्रौव्यं तल्लक्षणत्वेन, द्रव्यार्थेन त्रिपूदितम् ॥ १॥ अत एव पृथग् वृत्तौ, ध्रौव्यं चेति प्रदर्शितम् । सत त्रिरूपं त्रयं त्वेतत् , सम्भवेन विकल्पते ॥ २ ॥ आद्ययोर्नियमादन्त्य-मन्त्ये तु भजनाऽऽद्ययोः। स्वतः परनिमित्तौ तु, स्यातामप्युपचारतः ॥३॥ अस्ति नोत्पद्यते चैक-मेकमुत्पद्यतेऽस्ति च ।। नास्ति चोत्पद्यते चैकं, नास्ति नोत्पद्यते परम् ॥ ४॥ आकाशपरमाणू च, प्रदीपान्त्यशिखादि च । आकाशकुसुमं चेति, चतुष्टयमुदाहृतम् ॥५॥ सक्षेपतः कारिकापञ्चकस्यायमर्थः-पुद्गलजीवेषूत्पादव्यययोरन्यादृशत्वाद् ध्रौव्यस्य पञ्चत्वेऽप्यविशेषाद् वृत्तौ पृथय विवरणम् , अन्यथा धर्माधर्माकाशेष्यधिगमोपायविषयत्वेनोत्पादप्रच्युती, अन्यथा च जीवपुद्गलेब्विति द्रव्यक्षेत्रकालभावापेक्षात्, अन्यथा प्रयोगजावुत्पादव्ययौ, अन्यथा च धर्मास्तिकायादिषु द्रव्यस्वभावापेक्षमप्रयोगजौ ज्ञानविषयत्वोत्पादप्रच्युति. मात्रलक्षणी, नहि तेषु पौरुषेयो विससा वा प्रयोगः क्रमत इति, अतः परप्रत्ययावुत्पादविनाशी त्रयाणाम् , जीवपुगलानां तु प्रयोगविस्रसाभ्यामुत्पादव्ययौ सम्भवतः, धौव्यं तु सर्वेष्वविशिष्टम् , एतत् सतो लक्षणं कचिदुपचारतः कचित् परमार्थत इति, तदेतत् पौर्वापर्येणालोच्य कृतप्रज्ञैरागमझै रेव व्याख्यास्यते निर्विरोध, वयं तत्रानिपुणाः किञ्चिदेवस्थूलकुशलतयाऽभिदध्महे-चशब्दः समुचितौ वर्तते, तेनोत्पादादयः प्रत्येकं सतो लक्षणं, किं तर्हि ? समुदिता एव वस्तुतत्वं भवन्तीति, एनमेवार्थमुत्तरेण भाष्येण प्रदर्शयति-यदुत्पद्यते यद् व्येति यच Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy