________________
३८४
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ तस्तेषामेतद् विलक्षणमन्यदेव रूपं स्याद गत्याधुत्पादसद्भावे, न चान्यद् रूपं लक्ष्यते भुजगप्रसारणाकुण्डलिकतोत्फणविफणादिवत्, फणिनो हि स्वभावभूताकृतकसंस्थानान्तराभिव्यक्तिमात्रत्वात् प्राच्यफणिरूपानन्यत्वात् तद् द्रव्यावस्थानात कुत उत्पादः ? किं हि तत्रोत्पन्नं विद्यमानं वा नाभिव्यक्तमित्यत उत्पादाभाव एव, इत्येवं धर्मादीनामपि गत्यादीनामुत्पादाभावः स्वरूपावस्थानान्तरमात्रत्वाजलतरङ्गतुहिनपटलादिवत् , कुतः स्वाभाविक उत्पादः ? । न चोत्पादस्यान्यः प्रकारो विद्यत इति, तस्मान्नधास्त्युत्पादः । एवं द्रव्यपयोयनयद्वयापेक्षमस्तित्वमुत्पादस्य नास्तित्वं च भावितमात्मपुद्गलद्रव्यविषयम् ॥ अथाकाशधर्माधर्मेष्वविक्रियात्मकेघृत्पादस्याभावात् कुतस्तत्रोत्पादानेकान्त इति ?। उच्यते-तेष्वपि स्वाभाविक उत्पादः समुदायजनितः एकत्विकश्च द्विप्रकारोऽप्यस्ति भजनया । यथैव ह्यात्मन्यौपशमिकादीनां भावानामात्मन एव तेन तेनाकारेण वृत्तिरुत्पादः, स्पर्शादीनामणुषु, स्पर्शशब्दादीनां च स्कन्धेषु स्वाभाविक उत्पादस्तथा व्योमादिष्ववगाहगतिस्थितयो व्योमादिस्वभावास्तेषां परिणामाः, त एव ह्याकाशादयोऽवगाहाद्याकारेणोत्पन्नाः, तस्य चावगाहादेरुत्पादस्य प्रदेशरूपता यथाऽऽत्मनोऽसङ्ख्याताः प्रदेशास्तत्समुदायश्चात्मा भवति, आकाशस्य चाकाशत्वं स्वाभाविकमकृत्रिममेव, यस्तस्यावगाहोत्पादोऽसावप्यकृत्रिमत्वात् स्वाभाविक एव, यसादाकाशं शुषिरमवकाशदातृत्वस्वभावम्, तथा धर्माधौगतिस्थित्यनुग्रहहेतुस्वभावौ,आत्माऽपि ज्ञानात्मकत्वादुपयोगस्वभावः,पुद्गलाश्च मूर्तित्वात् स्पर्शादिस्वभावाः । एवमवगाहादेरुत्पादस्य स्यात् स्वाभाविकत्वम् , तथा स्यादस्वाभाविकस्वं समुदायकार्यत्वात् । यथा पटो भूयसां तन्तूनां समुदायेन जन्यते, अवगाहादेरपि यथोक्त उत्पादः समुदायजन्यत्वादस्वाभाविकः । यसादवगाहोऽवगाह्यावगाहकद्वयसमुदायात्मकः, गतिरपि गन्तृधर्मद्रव्यद्वयसमुदायात्मिका, स्थितिरपि स्थात्रधर्मद्रव्यद्वयसमुदायस्वभावा, उपयोगो विज्ञातज्ञेयसमुदायात्मकः, स्पर्शादयोऽपि स्पर्शनादिस्पृश्यादि समुदायात्मकाः, तसात् समुदायात्मकत्वात् स्यादस्वाभाविकः, समुदायनिरपेक्षाणामेषामवगाहादीनामभावादेवं स्यात् समुदायकृतः स्यादेकत्विकः, कथम् ? उत्पादो ह्यवगाहस्याकाशेऽवगाहकानुप्रवेशे व्यक्तिः, सा च व्यक्तियोमन्येव नान्यत्रापि, तस्य तु व्यञ्जकमेवावगाहकं नोत्पादकम्, व्यञ्जक चाकाशादन्यदेव भवति, व्यङ्ग्याद् घटादेवि प्रदीपादि, ततश्चावगाहस्यैकत्विक उत्पादः, स्यादनकत्विकःप्राक् प्रतिपादितवत्, ततश्च नभोऽवगाहोऽप्यनित्य एव गुणत्वात् पत्रनीलतावत, नमसोऽवगाहत्वलक्षणमुपकारः, स चावगाढारमन्तरेण जीवं पुद्गलं वा नाभिव्यज्यत इति अवगाढजीवादिसंयोगमात्रमवगाह इति सिद्धम् । संयोगश्चोत्पादी संयुज्यमानवस्तुजन्यत्वात् बङ्गुलसंयोगवत्, यथा चावगाह आकाशस्यैवं गतिस्थित्युपयोगरूपादयो गतिमदादिद्रव्यसंयोगमात्रत्वादुत्पादादिस्वभावा इति सर्वेऽप्युत्पादविगमध्रुवस्वभावा इत्यर्थः । न च पर्यायादास्मीयात् किश्चिद् द्रव्यमेकान्तभिन्नमुपलभ्यते, यत् सम्भाव्येत तस्मिन् पयोये परखभावभूते
१ 'कुण्डलिकाता' इति क-ख-ग-पाठः । २ 'त्वाद्व्या ' इति क-ख-पाठः। ३ विकं न कृत्रिम' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org